________________
RRCHARACT
यदि श्रोत्राद्युपयोगेन शुद्धा ततो ग्रहीष्यति, अथ न शुद्धा श्रोत्राद्युपयोगेन ततो न ग्रहीष्यति । इदानी भाष्यकार: प्रतिपदमेनामेव गाथां व्याख्यानयति, तत्र कथं जिनकल्पिकादयो गृह्णन्ति कथं वा स्थविराः ? इत्येतत्प्रदर्शयन्नाहनियमा उदिवगाही जिणमाई गच्छनिग्गया होति।थेरावि दिवगाही अदिहि करेंति उवओगं॥२५॥ (भा०) | 'नियमात्' अवश्यन्तयैव दृष्टग्राहिणः जिना-जिनकल्पिकादयो 'गच्छनिर्गताः' परित्यक्तगच्छा भवन्ति, 'स्थविराः' स्थविरकल्पिका अपि 'दृष्टग्राहिण एवं' अतिरोहितद्वार एव गृहे गृह्णन्ति, किमयमेव नियमः १, नेत्याह|'अदृष्टे' तिरोहिते गृहद्वारे कपाटादिना उपयोगं श्रोत्रादिभिरिन्द्रियैर्दत्त्वा ततः परिशुद्धे गृह्णन्ति । इदानीं 'नीयदुवारकवाडेत्ति व्याख्यानयन्नाहणीयदुवारुवओगे उड्डाह अवाउडा पदोसो य । हियनटुंमि अ संका एमेव कवाडउग्घाडे ॥ २५२॥ (भा०) | नीचद्वारे गृहे न ग्राह्य यतस्तत्र नीचद्वारे निष्कुटनं कृत्वोपयोगनिरीक्षणं कुर्वत उड्डाहः पश्चाद्भागदर्शने पेला| दिदर्शने सति कदाचित्तत्राप्रावृताः स्त्रियस्तिष्ठन्ति ततश्च निरूपयतः प्रद्वेषमुपरि कुर्वन्ति, तथा हृते चौरादिना नष्टे-स्वयमेवादृश्यमाने क्वचिद्वस्तुनि शङ्कोपजायते गृहस्थानां जहा तेण पवइयएणं निऊडिऊण निरूविअं आसी जदि तेण ण हियं भवे ?, 'एवमेव' एत एव दोषाः पिहितकपाटे निरर्गलमुद्घाटयतोऽप्रावृतिकादयः॥ देहन्नसरीरेण व दारं पिहिअंजणाउलं वावि । इड्डरपत्थियलिंदेण वावि पिहियं तहिं वावि ॥२५३॥ (भा०) ___ दातुर्देहेन द्वारं पिहितं स्थूलत्वाद्देहस्य अन्यस्य वा पार्श्वस्थस्य शरीरेण पिहितं । द्वारम् । आकीर्ण व्याख्यानयति-जना
ASSISSISSISSES