SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीओधनिर्युतिः द्रोणीया वृत्तिः ॥१६६॥ पादयेत्, वायुकायं हतौ स्थितं स्पृशन्ती व्यापादयेत्, तथोपरि तिर्यग्व्यवस्थिता फलवल्लीवृक्षशालाः - शाखा विराधयति, तथा तिर्यग्मनुजान् - जातमात्रबालकान् तिरश्चः - अश्ववत्सकादीन् सङ्घट्टयेत् । अथ चैते दोषाः कंटगमाई य अहे उपिं अहिमादिलंबणे आया । तस्स सरीरविणासो मिच्छतुड्डाह वोच्छेओ ॥ २५० ॥ भा०) कण्टकादयो वाऽधो भवन्ति, उपरि अह्यादि - सर्पादिलम्बने आत्मविराधना दातुः, तस्य च - दातुः शरीरविनाशे मिथ्यात्वं तस्यान्यस्य वा भवति, 'उड्डाहश्च' प्रवचनोपघातश्च भवति यदुत एतेषामेतावानपि प्रभावो नास्ति येन दातारं रक्षति । व्याख्यातं गमनद्वारम् इदानीं ग्रहणद्वारप्रतिपादनायाह नीदुवा रुग्घा डणकवाडठिय देह दारमाइन्ने । इड्डिरपत्थिय लिंदे गहणं पत्तस्सऽपडिलेहा ॥ ४७६ ॥ 'नी दुवार' गाहा, नीचद्वारं यदि भवति तत्र चक्षुषा निरूपणं कर्त्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथो द्घाटक पार्ट - अनर्गलितकपाटं न किन्तु पिहितकपाटं, तत्रापि न गृह्णाति तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्धे सति न गृह्यते, आकीर्ण चान्यपुरुषैर्गमागमं कुर्वद्भिः तथा इड्डर- गन्त्र्याः संबन्धि तेन तिरोहिते पत्थिका - बृहती पिट्टिका तया वा पिहिते द्वारे अलिन्दं - कुण्डकं तेन वा तिरोहिते एवमेतेषु दोषेषु सत्सु 'ग्रहणं प्राप्तस्य' गृहस्थस्य गृह्यते ऽस्मिन्निति ग्रहणं, यस्मात्प्रदेशाद्भण्डकं गृह्णाति तं प्रदेशं प्राप्तस्य 'अपडिलेह' त्ति यतः प्रत्युपेक्षणा न शुद्धयति अनन्तरोदितैर्दोषैरतो नं गृह्यते, यद्येभिरनन्तरोदितैर्दोषैर्भवद्भिर्न ग्रहणं ततो ग्रहणप्रदेशं प्राप्तस्य प्रत्युपेक्षणा कर्त्तव्या - श्रोत्रादिभिरुपयोगं करोति दात्र्यागमननिरूपणं नि. ४७५ भा. २४७. २५० ग्रहण द्वारं नि. ४७६ ॥१६६॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy