________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥१६४॥
कण्डयन्त्याः
पिंषन्त्याश्च हस्तान्न गृह्यते यतस्तत्र यथासङ्ख्येन एकस्या वीजसंघट्टनकृतो दोषः अपरस्या उदकसंघट्टनकृतो दोष:, इति द्वारद्वयम् । याऽपि यवादीनां भर्जनं करोति तस्या अपि हस्तान्न गृह्यते यतस्तत्र यवा - दिदहनकृतो दोषो भवति । दारं । तथा कर्त्तन्त्याः पिञ्जन्त्याश्च हस्तान्न गृह्यते यतस्तयोर्निष्ठीवनलिप्तौ हस्तौ भवतस्तत्प्रक्षालने उदकवधः, द्वारद्वयं ॥ इदानीं यदुक्तमासीद् भजनया - विकल्पेनैषामव्यक्तादीनां हस्तागृह्यते न त्वेकान्तेनैवाग्रहणं किन्तु ग्रहणमपि तत्प्रदर्शयति, तत्राद्यावयवभजनाप्रतिपादनायाह
भिक्खामे अवियालणं तु वालेण दिजमाणंमि । संदिट्ठे वा गहणं अइब हुयवियालणुन्नाओ ।। ४६९ ॥ बालो यदि भिक्षामात्रं परोक्षेऽपि ददाति ततो भिक्षामात्रे दीयमानेऽविचारणया गृह्णाति, अथासौ बालो गृहपतिना प्रत्यक्षमेव 'संदिष्टः' उक्तो यथा प्रयच्छास्मै साधवे भिक्षां, ततोऽसौ साधुर्गृह्णाति, अथासावतिबहु प्रयच्छति ततः साधुर्विचारयति, यदुत किमित्यद्यातिबहु दीयते ?, एवमुक्ते सति यद्यसौ गृहस्थ एवं भणति - यदुताद्य प्राघूर्णकादिवशाद्बहु संस्कृतं, ततोऽसौ साधु गृह्णाति । उक्ताऽव्यक्तयतना, इदानीं अप्रभुयतनोच्यते
अपहुसंदिट्ठे वा भिक्खामित्ते व गहणऽसंदिट्ठे । थेरपहु थरथरंते धरणं अहवा दढसरीरे ॥ ४७० ॥ अप्रभुः - भृतकादिर्यदि सन्दिष्टः-उक्तो भवति प्रभुणा ततस्तस्य हस्ताद्गृह्यते, यदा पुनर्न संदिष्टः- नोक्तः स प्रभुणा यथा दातव्यं त्वया, तत्रासन्दिष्टे सति भिक्षामात्रस्यैव ग्रहणं करोति । अप्रभुयतनोक्ता, स्थविरयतनोच्यते - स्थविरः सन्
४ अव्यक्ताप्रभवादिव्या
ख्या भा.
२४५-२४७ अव्यक्तादि
यतना नि.
४६९-४७०
॥१६४॥