SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ * * * प्रभुर्यदि ददाति, किंविशिष्टः?-कम्पमानः परेण धृतः सन् ततो गृह्यते, अथासौ स्थविरः प्रभुर्यदि दृढशरीरो ददाति तथाऽपि गृह्यते । दारं । इदानीं पण्डकादीनां यतनादर्शनायाहपंडगअप्पडिसेवी मत्तो सड्डो व अप्पसागरिए । खेत्ताइ भद्दगाणं करचरबिट्टप्पसागरिए ॥ ४७१॥ पण्डकस्य ददतो गृह्यते यद्यसावप्रतिसेवी भवति-न कुत्सितं कर्म आचरति । दारं । श्राद्धकस्य च मत्तस्य हस्तागृह्यते, यद्यसावल्पसागारिकः स भवेत् , वाशब्दादल्पमदश्च यदि स्यात् । दारं । तथा क्षिप्तचित्तदीप्तचित्तयक्षाविष्टानां हस्तागृह्यते यदि प्रकृत्या भद्रका भवन्ति-साधुवासनावन्त इत्यर्थः । द्वारत्रितयं । तथा कररहितचरणरहितानां हस्तागृह्यते, कथं?; चरणरहितो यधुपविष्टो ददाति अल्पसागारिकं च यदि भवति, कररहितोऽपि यद्यल्पसागारिके ददाति ततो गृह्यते नान्यथा । द्वारद्वितयं । इदानीमन्धादियतनाप्रदर्शनायाह सड्डो व अन्नरंभण अंधे सवियारणा य बद्धंमि । तद्दोसिए अभिन्ने वेला थणजीवियं थेरा ॥ ४७२॥ . अन्धस्य च हस्तागृह्यते यदि श्रद्धावानन्येनाकृष्यमाणो ददाति । दारं बद्धस्य च हस्ताद् गृह्यते यदि स सविचारो भवति-परिष्वष्वितुं शक्नोति । दारं । 'त्वग्दोषदुष्टस्यापि' कुष्ठिनोऽपि हस्ताद् गृह्यते यद्यसावभिन्नकुष्ठी भवति-लत्कुष्ठो न भवतीति । दारं । वेलेति-गुर्विण्या यदि वेलामासस्ततस्तस्या हस्तान्न गृह्णन्ति स्थविरकल्पिका इतरत्र गृह्णन्ति, जिनकल्पि| कादयस्तु यतः प्रभृत्यापन्नसत्त्वा भवति तत एवारभ्य न गृह्णन्ति । दारं । तथा स्थविराः स्थविरकल्पिकाः स्तनोपजीवी **********
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy