SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ भवन्तीति । इदाद्वारमुच्यते-याशिमादन करोति, तथालाच त पतनं भवाचिर्भवति, वर्तते । दार । सुरापानन यो मत्तस्तस्य हस्ताद्भिक्षा न गृह्यते, किं कारणं, यतो मत्तो भिक्षां प्रयच्छन् कदाचिदवयासं करोतिआलिङ्गतीत्यर्थः कदाचिद्भाजनं-पात्रकं भिनत्ति वमनं वा-छर्दनं करोति, तथाऽशुचिरितिकृत्त्वा लोक उड्डाहो भवतिप्रवचनोपघातः । द्वारम् । इदानीं तृतीयद्वारमुच्यते-व्याक्षिप्तचित्ते दीप्तचित्ते यक्षाविष्टे एत एव दोषा आलिङ्गनभाजन भेदवमनाशुचिप्रभृतयो भवन्तीति । इदानीं द्वारपञ्चकप्रतिपादनायाहहै करच्छिन्न असुइ चरणे पडणं अंधिल्लए य छक्काया।नियलाऽसुइ पडणं वातद्दोसी संकमो असुइ॥२४॥ (भा०) | छिन्नकरो यदि भिक्षां ददाति ततो न गृह्यते यतोऽशुचिदोषो लोके भवति । द्वारं । तथा यस्यापि चरणश्छिन्नस्ततोऽपि न गृह्यते यतः तस्य प्रयच्छतः पतनं भवति ।द्वारं। अन्धादपि न गृह्यते यतोऽसौ प्रयच्छन् षट् कायान् व्यापादयति ।दारं। निगडितादपि न गृह्यते भिक्षा, यतोऽसावशुचिर्भवति, पतनं च तस्य निगडबद्धस्य स्यात् । दारं । त्वग्दोषदूषितस्यापि हस्तान्न गृह्यते यतः कदाचित्कुसङ्क्रमः स्यात् अशुचिश्चासौ वर्त्तते । दारं । गुधिणि गब्भे संघटणा उ उटुंति निवेसमाणी य । बालाई मंसउंडग मज्जाराई विराहेज्जा॥ २४६ ॥(भा०) गुर्विणीहस्तान्न गृह्यते यतस्तस्या गर्ने संघट्टनं भवति, कथम् !, उत्तिष्ठन्त्याश्चोपविशन्त्याश्च । दारं । बालवत्साया अपि हस्तान्न गृह्यते भिक्षा, यतो बालं मुक्त्वा यदि भिक्षां ददाति ततस्तं बालं 'मंसुण्डकादिबुद्ध्या' मांसपिण्डादिबुझ्या, आदिग्रहणान्नवनीतबुद्ध्या वा मार्जारादिर्विराधयेत् । दारं । इदानीं द्वारपञ्चकप्रतिपादनायाहबीओदगसंघट्टण कंडणपीसंत भजणे डहणं । कत्ती पिंजती हत्थं लित्तंमि उद्गवहो ॥ २४७॥ (भा.) मजार
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy