________________
तत् निरूपयति कदाचिदुदका भवति, 'पाडिए' त्ति पातितश्च पात्र के पिण्डो निरूपणीयः, 'गुरु' ति गृहस्थभाजनं स्थाल्यादि गुरुर्भवति, कदाचित्तद्रव्यं गुडादि गुरुर्भवति, पाषाणादिर्वा भण्डकस्योपरि यो दत्तः, तथा 'तिह' त्ति त्रिविधः कालो वक्तव्यः, भावश्च-प्रशस्ताप्रशस्तरूपो वक्तव्यः । इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याख्यानायाह - आया पवयण संजम तिविहं ठाणं तु होइ नायवं । गोणाइ पुढविमाई निद्धमणाई पवयमि ॥ २४० ॥ ( भा० )
त्रिविधमुपघातस्थानं भवति, तद्यथा - आत्मोपघातिकं प्रवचनोपधातिकं संयमोपघातिकं चेति, तत्र यथायोगं गवा - दिभिरात्मोपघातिकं भवति पृथिवीकायादिभिः संयमोपघातिकं भवति निद्धमणादि - नगरोदकोपघसरादि उपघातस्थानं प्रवचनविषयं भवति । तत्र गवादिभिः कथमात्मोपघातो भवतीति दर्शयन्नाह -
गोणे महिसे आसे पेल्लण आहणण मारणं भवइ । दरगहिय भाणभेदो छड्डुणि भिक्खस्स छक्काया ॥ ४६३ ॥ चलकुडुपडणकंटगबिलस्स व पासि होइ आयाए । निक्खमपवेसवज्जण गोणे महिसे य आसे य ॥ ४६४ ॥ यदा गोमहिष्यादिस्थाने स्थितो भिक्षां गृह्णाति ततो महिष्यश्वादिप्रेरणं-विक्षेपणं आघातो वा मारणं तत्कृतं भवति आत्मविराधना, अर्द्धगृहीतायां भिक्षायां 'भाजनभेदः' पात्रकभेदो भवति, ततश्च भिक्षायाः 'छडने' प्रोज्झने पडपि काया विराध्यन्ते इयं संयमविराधना । अथवाऽनेन प्रकारेणात्मविराधना भवेत् — तत्र भिक्षाग्रहणस्थाने कदाचिच्चलं कुड्यमा - सन्ने भवति ततस्तत्पतनजनित आत्मोपघातो भवति, कण्टका वा तत्र भवन्ति, बिलस्य वा 'पार्श्वे' आसन्ने तत्स्थानं