SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीओषनिर्युक्तिः द्रोणीया वृत्तिः ॥ १५ ॥ | ताहे दिहं दिट्ठीए ण पाडिंति, ओमत्थिआ गेण्हंति, दिट्ठीइ संकमइ ॥ 'चउवज्जणं ति चतुर्णां वर्जना - परिहारश्चतुर्वर्जना विकृत्यादीनां चतुर्षु वा वर्जना क्षेत्रस्य - संयतभद्रिका गृहिप्रान्ता इत्यादिषु भङ्गकेषु, 'वीसु उवस्संए यत्ति ग्लानविधिः, विष्वग्-भेदेनोपाश्रयः- आश्रयः कर्तव्य इत्यर्थः । जो संजतो असिवेण गहिओ होज्जा, तस्स दूरडियस्स भत्तं तिपरंपरेण दिज्जइ । 'तिपरंपराभत्तं' ति, त्रयाणां परम्परा त्रिपरम्परा, भक्तं- आहारः, तद् एको गृह्णाति द्वितीयश्चानयति तृतीयोऽवज्ञया ददातीत्यर्थः । अवधूतम् -अवज्ञातं, जैहा अवधूता नासति ॥ ग्लानोद्वर्तनादिविधिप्रदर्शनायाह— उत्तणनिल्लेवण बीते अणभिओगभीरू य । अगहिअकुलेसु भत्तं गहिए दिहिं परिहरिजा ॥ १९ ॥ भा० ) उद्वर्तनं-ऊर्द्ध वर्तनं यदसावुद्वर्त्यते, निर्लेपनं यदसौ निर्लेपः क्रियते, उपलक्षणं चैतत्, तस्य सकाशे न स्थातव्यं दिवारात्रौ वा । अथ कीदृशेन साधुना कर्तव्यमित्याह - 'बीहंते अणभिओग' त्ति बिभ्यत्यनभियोगः, बिभ्यतीति भयं गच्छति, भीरावित्यर्थः, नाभियोगोऽनभियोगः, यो भीरुः स तत्र न नियोक्तव्यः । कस्तर्हि करोति ?, आह- 'अभीरू य' अभीरुश्च न भीरुरभीरुः, स तत्र स्वयं करोति नियुज्यते वा, चशब्दो वस्त्रान्तरितादिप्रयत्नप्रदर्शनार्थः, अगृहीतेषु कुलेषु अशिवेनेह भक्तं ग्राह्यं, तदभावे दृष्टिं दृष्टिसंपातपरिहारः । आह - चतुर्वर्जनेत्युक्तं तत्र भङ्गका अपि गृह्यन्त इति जोऽवि तं उद्यत्तेइ वा परियत्तेइ वा सो हत्थस्स अंतरे वत्थं दाऊण ताहे उद्यत्तेति वा परियत्तेइ वा । उवत्तेऊण हत्थे । १ तदा दृष्टिं दृष्टो न पातयंति, उद्घाटमस्तका (प्रच्छन्ना) गृह्णन्ति, दृष्टेः संक्रामंते । २ यः संयतोऽशिवेन गृहीतो भवेत् तस्मै दूरस्थिताय त्रिपरम्परकेण भक्तं दीयते । ३ यथाऽवज्ञाता नश्यति । योऽपि तमुद्वर्त्तयति वा परिवर्त्तयति वा स हस्तस्यान्तरे वस्त्रं दत्त्वा तमुद्वर्त्तयति वा परिवर्तयति वा । उद्वर्त्य हस्तौ १प्रतिलेखनाद्वारे अशिवादिः भा. १९ ॥ १५ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy