________________
*
HORARARASISI
केनचित्सह गता, एतेषु नष्टेषु सत्सु साधोरुपरि शङ्का भवति, यदुत तत्कृतोऽयं घात इति, 'वृत्तखुरः' अश्वप्रधानः केनचिदपहृतो भवेत्ततश्च साधोरुपरि बाह्वादिना दर्शयतः शङ्का भवति ॥ इदानीं यानि प्रतिकुष्टकुलानि कथितानि तान्येभिरभिज्ञानैर्वजयति- . | पडिकुट्टकुलाणं पुण पंचविहा थूभिआ अभिन्नाणं । भग्गघरगोपुराई रुक्खा नाणाविहा चेव ॥ ४३९॥
तेषां प्रतिकुष्ठकुलानां पञ्चविधा स्तूपिकाऽभिज्ञानं भवति, भग्नगृहसमीपादौ वा तथा गोपुरसमीपे बहिरन्तर्वा वृक्षा नानाविधा अभिज्ञानं प्रतिषिद्धकुलानाम् । इतश्च स्थापनाकुलेषु न प्रवेष्टव्यं, यतः
ठवणा मिलक्खुनेई अचियत्तघरं तहेव पडिकुडं । एयं गणधरमेरं अइकमंतो विराहेजा ॥४४०॥ . __ स्थापनाकुलानि तथा 'मिलक्खू' म्लेच्छगृहं तथा अचियत्तगृहं तथा 'प्रतिकुष्टं' छिम्पकादिगृहं सूतकोपेतगृहं वा, एतेषु न प्रवेष्टव्यं, इयं 'गणधरमेरा' गणधरस्थितिस्ततश्चैतां मर्यादा प्रवेशेनातिक्रामन् विराधयति दर्शनादि । आहप्रतिकुष्टकुलेषु प्रविशतो न कश्चित् षडूजीववधो भवति किमर्थ परिहार इति ?, उच्यते
छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुंछिए पिंडगहणे य॥४४१॥ सुगमा ॥ नवरम्-आहारनीहारौ यद्यगुप्तः सन् करोति, 'जुगुप्सितेषु' छिम्पकादिषु यदि पिण्डग्रहणं करोति ततो| दुर्लभां बोधिं करोतीति । ननु च ये इह जुगुप्सितास्ते चैवान्यत्राजुगुप्सितास्ततः कथं परिहरणं कर्त्तव्यं ?, उच्यते
जे जहि दुगुंछिया खलु पचावणवसहिभत्तपाणेसु । जिणवयणे पडिकुट्ठा वजेयवा पयत्तेणं ॥ ४४२॥
*ASSASASAAPASA ***
***