SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ अत्र सन्ति श्रमणाः?, किंविशिष्टाः १-शोभनं विहितमेषामिति सुविहिताः-शोभनानुष्ठानाः, ततश्चैतेषामन्यतमेन कर |सति ततस्तेषामेव-श्रमणादीनां 'आलयं' आवासं गच्छेत् । ततस्तेषां आलयं प्राप्य किं करोति ? इत्याह__ समणुण्णेसु पवेसो बाहिं ठविऊण अन्न किइकम्मं । खग्गूडे सन्नेसुंठवणा उच्छोभवंदणयं ॥ ४३३ ॥ यदि हि ते समनोज्ञाः-एकसामाचारीप्रतिबद्धास्ततस्तेषां मध्ये प्रविशति अन्ये-असमनोज्ञा भवन्ति यदि ततो बाह्यत | उपकरणं स्थापयित्वा प्रविश्य 'कृतिकर्म द्वादशावर्त्तवन्दनं ददाति, अथ ते संविग्नपाक्षिका अवसन्ना भवन्ति ततो बहिर्व्यवस्थित एव वन्दनं कृत्वाऽबाधां पृच्छति, अथ ते 'अवसन्नाः' खग्गूडप्रायास्ततो बहिरेवोपकरणं स्थापयित्वा पुनश्च प्रविश्य तेषामुच्छोभवन्दनं करोति । गेलन्नाइ अवाहा पुच्छिय सयकारणं च दीवेत्ता । जयणाए ठवणकुले पुच्छइ दोसा अजयणाइ ॥ ४३४॥ | __ एवं सर्वेष्वेतेष्वनन्तरोदितेषु समनोज्ञादिषु प्रविश्य ग्लानाद्यबाधां पृष्ट्वा स्वकीयमागमनकारणं 'दीपयित्वा' निवेद्य 'यतनया' मधुरवागलक्षणया, यदिवा वक्ष्यमाणलक्षणया स्थापनाकुलानि पृच्छति । अयतनया पृच्छतो दोषः वक्ष्यमाणलक्षणो यतोऽतो यतनया पृच्छति । एतानि तानि स्थापनाकुलानि- ' दाणे अभिगमसड्ढे संमत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते कुलाइ जयणाइ दायंति ॥ ४३५॥ दानश्राद्धकोऽभिगमश्राद्धको-यत्र कारणे आपन्ने प्रविश्यते सम्यक्त्वधरकुलं मिथ्यात्वकुलं मामाकः-मा मम समणा । घरमइंतु तत्कुलं 'अचियत्तं' अदानशीलं कुलं, एतानि कुलानि ते वास्तव्यास्तस्य साधोर्यतनया दर्शयन्ति । HOS OSSASSAGE* भणया, यदिवा वक्ष्यमातानि स्थापनाकुलानिचियत्ते कुलाइ जया मामाकः-मा मम समय
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy