________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥१५५॥
पुरतो जुगमायाए गंतू अन्नगामबाहिठिओ । तरुणे मज्झिमधेरे नव पुच्छाओ जहा हेट्ठा ॥ ४३० ॥
पुरतो युगमात्रं निरीक्षमाणो 'गत्वा' अन्यग्रामं संप्राप्य बहिर्व्यवस्थितः पृच्छति - किं विद्यते भिक्षावेलाऽत्र ग्रामे उत न ?, कान् पृच्छतीत्यत आह-तरुणं मध्यमं स्थविरं, एकैकस्य त्रैविध्यान्नव पृच्छाः कर्त्तव्याः, यथाऽधस्तात्प्रतिपादितस्तथैवात्रापि न्यायः, तत्र तरुणं स्त्रीपुंनपुंसकं मध्यमं स्त्रीपुंनपुंसकं स्थविरं स्त्रीपुंनपुंसकमिति । एवं पृष्ट्वा यदि तत्र भिक्षावेला तत्क्षण एव ततः को विधिरित्यत आह
पाय पमज़णपडिलेहणा उ भाणदुग देसकालंमि । अप्पत्तेऽविय पाए पमज्ज पत्ते य पायदुगं ॥ ४३१ ॥
तत्र हि ग्रामासने उपविश्य पादप्रमार्जनं करोति, किं कारणं ?, तत्पादरजः कदाचित्सचित्तं भवति कदाचिन्मिश्रं लग्नं भवेत्, ग्रामे च नियमादचित्तं रजोऽतः प्रमार्जयति, पुनश्च प्रत्युपेक्षणां करोति पात्रद्वितयस्य - पतग्रहस्य मात्रकस्य च, एवं 'देशकाले' भिक्षावेलायां प्राप्तायां करोति, अथाद्यापि न भवति भिक्षाकालस्ततस्तस्मिन्नप्राप्ते भिक्षाकाले पादौ प्रमार्ष्टि, ततस्तावदास्ते यावद्भिक्षाकालः प्राप्तः, ततस्तस्मिन् प्राप्ते सति तस्यां वेलायां पात्रद्वितयं प्रत्युपेक्षत इति । एवमसौ पात्रद्वितयं प्रत्युपेक्ष्य ग्रामे प्रविशन् कदाचिच्छ्रमणादीनि पश्यति ततस्तान् पृच्छति, एतदेवाह - समणं समणि सावगसावियगिहि अन्नतित्थि बहि पुच्छे । अस्थिह समण ? सुविहिया सिट्ठे तेसालयं गच्छे ॥ ४३२ ॥ श्रमणं श्रमणीं श्रावकं श्राविकां गृहस्थमन्यतीर्थिकान् वा बहिर्दृष्ट्वा पृच्छति, एताननन्तरोक्तान् सर्वान् दृष्ट्वा पृच्छति,
प्रमाणादीनिसप्रतिपक्षाणि नि.
४२७-४२९
परग्रामे
भिक्षा नि. |४३०-४३२
॥१५५॥