SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ SASARAKAA गेलनकजतुरिओ अणभोगेणं च लित्त.अग्गहणं । अणभोगगिलाणट्ठा उस्सग्गादीणि नवि कुज्जा ॥ ४२७॥ ___ ग्लानकार्येण त्वरितो गतः ततश्चैवं न गृह्णाति, अनाभोगेन वा निर्गतो यदि, लिप्तं वा लेपेन तत् मात्रक यदि, तत|श्चैवाग्रहणं मात्रकस्य संभवतीति । उक्ता मात्रकयतना, इदानीं उत्सर्गयतनाप्रतिपादनायाह-अनाभोगेन उत्सर्ग-उपयोग न कुर्यात् , ग्लानार्थं वा त्वरित उत्सर्ग न कुर्यात् , आदिग्रहणादावश्यकं च न कुर्यादिति । उत्सर्गयतनोका, इदानीं “जस्स जोगो” अस्य विधिरुच्यतेटू जस्स य जोगमकाऊण निग्गमो न लभई तु सच्चित्तं । न य वत्थपायमाई तेण्णं गहणे कुणसु तम्हा ॥ ४२८॥ __'जस्स य जोर्ग' इत्येवं 'अकृत्वा' अभणित्वा निर्गतः सन् एवं 'न लभते न भवत्याभाव्यं 'सचित्तं' प्रव्रज्यार्थमुपस्थितं गृहस्थं, नाप्यचित्तं वस्त्रपात्रकादि, अथ यस्य योग इत्येवमकृत्वा गृह्णाति ततः स्तैन्यं भवति, तस्मात्कुरु यस्य योग इत्येवम् । . सो आपुच्छि अणुनाओ सग्गामे हिंड अहव परगामे । सग्गामे सइ काले पत्ते परगामि वोच्छामि ॥४२९॥ ___ आपुच्छणा णाम 'संदिसह उपओगं करेमित्ति, बितिया पडिपुच्छणा-कह गिण्हामित्ति, गुरू भणइ-तहत्ति, यथा पूर्व साधवो गृह्णन्तीत्यर्थः, एवमसौ अनेन क्रमेण प्रच्छने कृते सत्यनुज्ञात आवश्यकी कृत्वा यस्य च योग इत्येवमभिधाय निर्गत्य है स्वग्रामे हिण्डते, अथवा 'परग्रामे' समीपग्रामे, तत्र स्वग्रामे यदि हिण्डते ततः 'सति काले' प्राप्तायां भिक्षावेलायामि त्यर्थः, इदानी परग्रामे वक्ष्यामि हिण्डतो विधिम् R
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy