________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥१५३॥
त्येवमादिकां, अथ कथितेऽपि धर्मे न मुश्चति सतो भणति यदुत व्रतानि गुरुसमीपे स्थापयित्वाऽऽगच्छामीति, एतदभि- प्रमाणादीधाय नश्यति, अथ तथाऽपि न लभ्यते गन्तुं ततो भणति इहैवापवरके व्रतमोक्षणं करोमीति तत्र च प्रविशति, उल्लम्बनार्थ
| निसप्रतिरज्जु च गृह्णाति, ततस्तेन भयेन कदाचिन्मोहोपशमो भवति, मोहनरसो भयेन हियते, अथैवमपि न मुञ्चति ततो नियत AR४२३
पक्षाणि नि. एवेति । उक्ता स्त्रीयतना, इदानीं श्वादियतनोच्यते__ साणा गोणा इयरे परिहरऽणाभोगकुडुकडनीसा । वारइ य दंडएणं वारावे वा अगारोहिं ॥ ४२२ ॥ | श्वानो गवादयश्च येषु गृहेषु तानि परिहरति, अथानाभोगेन कथमपि प्रविष्टः प्रत्यनीकैश्च गृहीतुमारब्धस्ततः कुख्यकटनिश्रया तिष्ठति, कुज्यं कटं वा पृष्ठे करोति अग्रतो दण्डकेन वारयति अगारैर्वा वारयति । उक्का श्वयतना, इदानीं पडिणीययतनोच्यते
पडिणीयगेहवजण अणभोगपविट्ठ पोलमिकखमणं । मझे तिण्ह घराणं उवओग करेउ गेण्हेजा ॥ ४२३ ॥ । एकाकिना प्रत्यनीकगृहे न प्रवेष्टव्यं, अथानाभोगेन प्रविष्टः प्रत्यनीकैश्च ग्रहीतुमारब्धस्ततो बोलं करोति-उच्छब्दवति येन लोको मिलति, तत आकुले निष्कामति । उक्ता प्रत्यनीकयतना, अधुना भिक्षाविशोधियतनोच्यते-मध्ये स्थितस्त्र
॥१५३॥ याणामपि गृहाणामुपयोगं दत्त्वा पक्या स्थितानां भिक्षां गृह्णाति, उक्ता भिक्षाविशोधियतना, अधुना पञ्चमहाव्रतयतनोच्यते, तत्र भिक्षायामुपयोगं ददता प्राणातिपातसंरक्षणं कृतमेव, इदानी द्वितीयमहाव्रतयतनां प्रतिपादनायाह