________________
जइ दोण्ह एग भिक्खा न य वेल पहुप्पए तओ एगो । सवेवि अत्तला भी पडिसेहमणुन्नपियधम्मे ॥ ४१९ ॥
यदि तत्र क्षेत्रे पर्यटतामेकैव भिक्षा द्वयोरपि लभ्यते न च कालः पर्याप्यते न य पहुप्पइ तदा एकाकिन एव हि - ण्डन्ते । दुर्लभयतनोक्ता, इदानीं अत्ताहिट्ठिययतनोच्यते - यदि ते सर्व एव खग्गूडा अत्तलद्धिया होइउमिच्छति तदाऽऽचार्यः प्रतिषेधं करोति, अथ कश्चित्प्रियधर्मा आत्मलब्धिको भवति तत आचार्योऽनुज्ञां करोति, ततश्चैवमेकाकी भवति, अत्ताहिट्ठिअजयणा भणिया, अमणुण्णयतनां प्रतिपादयन्नाह
अमणुन्न अन्नसंजोइया उ सधेवि णेच्छण विवेगो । बहुगुणतदेकदोसे एसणबलवं नउ विगिंचे ॥ ४२० ॥ यद्यसौ 'अमनोज्ञः' रटनशीलस्ततोऽन्यस्य संयोज्यते तेन सह हिण्डते, अथ सर्व एव नेच्छन्ति ततस्तस्यामनोज्ञस्य विवेकः - परित्यागः क्रियते, अथासौ बहुगुणसंपन्नः किन्तु स एवैको दोषः रटनशील इति एषणायां च बलवांस्ततो नासौ | परित्यज्यते । भणिया अमणुण्णजयणा, अधुना यदुक्तम् - "एगाणियस्स” इत्येवमादि तेषां यतनोच्यते, आह- किं पुनः कारणमुत्क्रमेण ख्यादीनां पदानां यतनोच्यते ?, उच्यते, गर्वितकथिकादयः प्रज्ञापिताः सन्तः कारणवशादेकाकिनोऽपि भिक्षामटन्ति, ततश्चैकाकिनामटतां यद्यपि स्त्रीकृता दोषा भवन्ति तथाऽपि तत्रेयं यतना, इदानीं या गाथोपन्यस्ताssसीत् यदुत "एगाणियस्स दोसा" इत्यादिका, तत्र यतनां प्रतिपादयन्नाह
इत्थीगहणे धम्मं कहेइ वयठवण गुरुसमीवंमि । इह चेवोवर रज़ू भएण मोहोवसम तीए ॥ ४२१ ॥ एवं तस्यैकाकिनो गतस्य सतः स्त्रीग्रहणे सति - स्त्रिया गृहीतः सन् धर्मकथां करोति, यदुत नरकगमनाय मैथुनासेवे