________________
श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः
प्रमाणादी|निसप्रतिपक्षाणि नि. ४१५-४१८
॥१५२॥
प्रविश्य व्युत्सृजति। अण्ण'त्ति अथासमनोज्ञास्तत्रासन्नास्ततस्तद्वसतौ प्रविश्य व्युत्सृजति, तदभावेऽवसन्नानां वसतौ व्युत्स- जति तदभावे श्राद्धगृहे, तदभावे वैद्यगृहे व्युत्सृजति, तत्र च वैद्यगृहे प्ररूपयति यदुत 'तिण्णि सल्ला महाराय' इत्येवमादि, ततश्चासौ वैद्यः स्मारिते ग्रन्थ एवं भणति 'एत्थेव'त्ति अत्र पश्चाद्गृहे व्युत्सृज, 'परोहडे वा' गृहस्य पश्चादङ्गणे व्युत्सृजति, यतोऽसौ मध्यप्रदेशः, स च नरपतेः परिग्रहः ततः कलहादिर्न भवति ।
उग्गहकाईयवजं छंडण ववहारु लब्भए तत्थ । गारविए पन्नवणा तव चेव अणुग्गहो एस ॥ ४१८॥
तदभावे गृहस्थसत्केऽवग्रहे परिगृहीते तस्मिन्नपि व्युत्सृजति, कथं ?, कायिकावर्ज पुरीषमुत्सृजन्नपि कायिकी न व्युत्सृजति । किं कारणं; जओ.छड्डणे ववहारो लब्भइ, जदि गिहत्थो भणेज्जा-छड्डेहि, तो न छड्डेइ, ववहारं राउले करेइ । जहा चाणक्कएऽवि भणिअं-'जइ काइयं न वोसिरइ ततो अदोसो' । अयमित्थंभूतस्तत्र व्यवहारो लभ्यते, ततः कायिकां न व्युत्सृजति । उक्काऽऽवश्यकयतना, अधुना सङ्घाटकयतनोच्यते, तत्र चेयं प्रतिद्वारगाथोपन्यस्ताऽऽसीत् “गारविएकाही” त्येवमादिका, तस्या यतनोच्यते, तत्र "गारविए"त्यस्य पदस्य यतनामाह-'गारविए पन्नवणा' योऽसौओमरायणिको लब्ध्या गर्वितः सन्नेकाकी भवति तमाचार्यो धर्मकथया प्रज्ञापयति, यदुत तवैवायमनुग्रहो यत्त्वदीयलब्ध्युपष्टम्भेन स्वाध्यादि कुर्वन्तीति । गारवियजयणा गया, एवमिदमुपलक्षणं वर्तते, अन्येषामपि कथिकमायाविअलसलुब्धनिर्द्धर्माणां प्रज्ञापना कर्त्तव्या । इदानी दुर्लभपदव्याख्यां कुर्वन्निदमाह
॥१५२॥