________________
वेंटल पुट्ठो नया आयन्नातीणि वज्जए ठाणे । सुद्धं गवेस उछं पंचऽइयारे परिहरंतो ॥ ४२४ ॥
वेण्टलं-निमित्तादि पृष्टः सन्नेवं भणति न जाने, एवं भणता द्वितीयमहात्रतयतना कृता भवति । इदानीं तृतीयमहाव्रतयतनां दर्शयन्नाह - 'आयण्णाईणि वजए ठाणे' तत्र भिक्षार्थी प्रविष्ट आकीर्णादिस्थानं परिवर्जयेत्, यत्र हिरण्यादि विक्षिप्तमास्ते तदाकीर्णस्थानं तच्च साधुना वर्जनीयं, एवं तृतीयमहाव्रतयतना कृता भवति । इदानीं पञ्चममहात्रतयतनां प्रतिपादयन्नाह - 'शुद्धम्' उद्गमादिदोषरहितं 'गवेषयति' अन्वेषयति 'उच्छे' भक्तं पञ्चाप्यतीचारान् रक्षन् । उक्ता पञ्चममहाव्रतयतना, चतुर्थमहाव्रतयतना तूक्तैव, "इत्थिग्गहणे धम्मं” इत्येवमादिना, उक्ता सङ्घाटकयतना, इदानीमुपकरणयतनाप्रतिपादनायाह
जत्रेण चोलपट्टो वीसरणालू गहाय गच्छेजा । उस्सग्ग काउ गमणे मत्तयगहणे इमे दोसा ॥ ४२५ ॥ •उत्सर्गस्तावद्भिक्षार्थं गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यं, यस्तु विस्मरणालुः स जघन्येन चोलपट्टकमादाय गच्छति, उपलक्षणं चात्र चोलपट्टकोऽन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वयं च गृहीत्वा गच्छति । उक्तोपकरणयतना, | इदानीं मात्रकयतनां प्रतिपादयन्नाह - मात्रकं गृहीत्वा गन्तव्यं, अगृहीत्वा वोत्सर्गमिति-उपयोगं कृत्वा व्रजति, अथ मात्रकं न गृह्णाति गच्छंस्ततश्च मात्रकाग्रहणे एते च दोषाः वक्ष्यमाणाः, अत्र च यदुत्सर्गग्रहणं कृतं तद्विधिप्रदर्शनार्थं न तु पुनः स्वस्थानमिति । इदानीं मात्रकाग्रहणे दोषान् प्रदर्शयन्नाह