________________
श्रीओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥१४९॥
संघाडएणगहणे दोसा एगस्स इत्थियाउ भवे । साणे भिक्खुवओगं संजम आएगयरदोसा ॥ २१९ ॥ भा०)
'सङ्घाटकस्य' सङ्घाटकसंयोगस्य 'अग्रहणे' अकरणे दोषा एकाकिनः स्त्रीकृता भवन्ति, एकाकिनं दृष्ट्वा साधु कदाचिगृह्णीयात् । ' इत्थि'त्ति गयं, 'साणे'त्ति व्याख्यायते - शुन्युपयोगं यदि ददाति ततः संयमविषयो दोषः, अथ भिक्षायामुपयोगं ददाति तत आत्मोपघातदोषः, एवमेकाकिनः प्रविशतः शुनीकृतो दोषो भवतीति, यथासङ्ख्यं चैतद् व्याख्येयं । 'साणे'त्ति गयं, इदानीं 'पडिणीए 'त्ति व्याख्यायते
दोणि उदुद्धरिसतरा एगोत्ति हणे पदुट्टपडिणीए । तिघर गहणे असोही अग्गहण पदो सपरिहाणी ॥२२० ॥ (भा०) द्वौ साधू भिक्षामन्तौ प्रत्यनीकस्य दुष्प्रधृष्यतरौ भवतः - दुःखेन परिभूयेते दुर्जयतरौ इत्यर्थः । 'एगोत्ति हणे' एकाकिनं पुनर्दृष्ट्वा हन्ति प्रद्विष्टः सन् प्रत्यनीकस्तस्मात्सङ्घाटकेन गन्तव्यं । 'पडिणीए'त्ति गयं, इदानीं 'भिक्खादिसोहि त्ति भण्णइ - यदा स एकाकी क्वचित्पाटके भिक्षार्थं प्रविष्टः समकमेव च गृहत्र्यान्निर्गता भिक्षा गृह्णतो भिक्षाया अशुद्धिर्भवतिआहृतदोषो भवति, यत ईर्यापथिकां शोधयितुं न शक्नोति, अथ तत्रैकां भिक्षां गृह्णाति यस्यामुपयोगो दत्तः तत इतरस्य भिक्षाद्वयस्याग्रहणे 'पओस'त्ति ते भिक्षादातारः प्रद्वेषं गच्छेयुः, यदुतास्माकमयं परिभवं करोति येन नास्मदीयं गृह्णाति, 'परिहाणि'त्ति अग्रहणे च परिहाणिर्भवति भिक्षाया गच्छस्य वा तेनागृहीतेन 'भिक्खविसोहि त्ति गयं, इदानीं 'महवय'त्ति व्याख्यायते -
| पाणिवहो तिसु गहणे पउंजणे कोंटलयस्स बितियं तु । तेणं उच्छुद्धाई परिग्गहोऽणेसणग्गहणे ॥ २२१ ॥ ( भा० )
गवेषणैषणायां संघा टित्वं भा. २१७-२२१ नि ४१२
॥१४९॥