________________
त्रिषु गृहेषु यौगपद्यागतां भिक्षां यदा गृह्णाति तदा प्राणिवधः कृतो भवति, ततश्च प्रथमव्रतभङ्गः, तथा चासौ एकाकी कौटलं ज्योतिषं निमित्तं वा प्रयुङ्क्ते ततश्च अनृतस्य नियमेनैव सम्भवो यतस्तत्रोपघातकरमवश्यमुच्यते, उपघात जनकं चानृतं तदुच्चारणे द्वितीयत्रतभङ्गः । 'तेणं उच्छुद्धाई' अथ तत्र गृहे एकाकी प्रविष्टः सन् उच्छुद्धं विक्षिप्तं हिरण्यादि पश्यति ततश्च तद्गृह्णाति, एकाकिनो मोहसंभवात्, 'तेणं'ति ततः स्तैन्यदोषस्तृतीयत्रतभङ्ग इत्यर्थः, तथा कदाचिदेकाकी अनेषणीयमपि गृह्णीयात्, ततस्तस्मिन्ननेषणीये गृहीते परिग्रहकृतो दोषः, चतुर्थव्रतमत्र पृथं नोक्तं, मध्यमतीर्थकराणां परिग्रह एव तस्यान्तर्भावात् किल नापरिगृहीता स्त्री भुज्यत इति, पश्चिमस्य तु तीर्थकृतः पृथक् चतुर्थ व्रतं तन्म| तेन चतुर्थव्रतभङ्गं दर्शयन्नाह -
•
विहवा पत्थवइया पयारमलभंति दहुमेगागी । दारपिहाणय गहणं इच्छमणिच्छे य दोसा उ ॥ २२२ ॥ (भा० ) विधवा स्त्री, धवो - मनुष्यः स विनष्टो यस्या इति समासः, तथा प्रोषितभर्तृका, तथा या प्रचारं न लभते - निरुद्धा धियते, सा एवंविधा त्रिप्रकारा स्त्री एकाकिनं साधुं प्रविष्टं दृष्ट्वा गृहे द्वारं ढङ्कयित्वा गृह्णीयात्, तत्र यद्यसौ तां स्त्रियमिच्छति ततः संयमभ्रंशः अथ नेच्छति तत उड्डाहः, सैव स्त्री लोकस्य कथयति, यदुतायं मामभिभवतीति, ततश्चोड्डाहः । प्रतिद्वारगाथा व्याख्याता । कैः पुनः कारणैरसौ एकाकी भवति ?, तत्राह—
गारविए काहीए माइल्ले अलस लुद्ध निद्धम्मे । दुल्लभअत्ताहिटिय अमणुन्ने वा असंर्घाडो ॥ ४१३ ॥ दारगाहा । 'गारविए'त्ति गर्वेण लब्धिसंपन्नोऽहमितिकृत्वा एकाकीभवति, तथा 'काहीए त्ति भिक्षार्थं प्रविष्टो धर्मकथां करोति