________________
श्रीओघ निर्युक्तिः द्रोणीया
वृत्तिः
॥१४८॥
'फिडिए' त्ति अथापगतायां - अतिक्रान्तायामर्द्धपौरुष्यां भिक्षार्थं प्रविशति ततश्च यदि भद्रको भवति तत एवं | ब्रवीति-यदुत अद्यदिवसादारभ्य यथा इयती वेला राद्धस्य भक्तस्य भवति तथा कर्त्तव्यं, ततश्च उद्गमदोषः - आधाकर्मादिदोषः, 'ठविय'त्ति अथवा यदुद्धरति तत्त्वयाऽद्यदिवसादारभ्य साध्वर्थ स्थापनीयं, ततश्चैवं स्थापनादयो दोषा भद्रकविषया भवन्ति, अथासौ गृहपतिर्भद्रको न भवति ततः 'चारी' इति ततश्चावेलायां भिक्षार्थं प्रविष्टमेवं प्रान्तो ब्रवीति - यदुतायं चारीभण्डिकः कश्चिद् अन्यथा कोऽयं भिक्षाकाल इति, नायं प्रत्यूषकालो नापि मध्याह्नकाल इति, 'किलस्सण'त्ति तथा अवेलायां भिक्षानिमित्तं प्रविष्टस्य क्लेश एव पर्यटनजनितः परं न तु भिक्षाप्राप्तिः, तम्हा दोसीणवेलाए चेव उयरेयवं । इदानीं मध्याहस्यारत एव यदि भिक्षामटति ततः को दोषः ? इत्यत आहभिक्खस्सवि य अवेला ओसकहिसकणे भवे दोसा । भद्दगपंतातीया तम्हा पत्ते चरे काले ॥ २१६ ॥ ( भा० )
भिक्षाया अवेलायां यदि प्रविशति ततो यदि भद्रकः 'असणं'ति याऽसौ रन्धनवेला तां मध्याह्लादारत एव कारयति येन साधोरपि दीयते, एवं तावद्भिक्षावेलायामप्राप्तायां हिण्डतो दोषाः, अथ पुनर्निवृत्तायां भिक्षावेलायामटति ततः 'अहिसकणे' त्ति रन्धनवेलां तामुच्छूर एव करोति येन. साधोरपि भक्तं भवति, एवमेते दोषा भद्रके भवन्ति, 'पंतादीय' सि प्रान्तकृतास्तु दोषाः पूर्ववद्रष्टव्याः भाण्डिकोऽयमिति ब्रूतें प्रान्तः, तस्मात्प्राप्त एव काले चरेद्धिक्षां न न्यूनेऽधिके वा । "काले" त्ति गयं, इदानीं “आवस्सए" त्ति व्याख्यायते -
प्रमाणका
लादिभिर्ग& वेषणैषणा
भा. २१४२१६
॥१४८॥