________________
न. शिवमशिव-देवतादिजनितो ज्वराद्युपद्रवः, अवमोदरिक-दुर्भिक्षं, राज्ञो भयं राजभयं, क्षुभितं क्षोभः, संत्रास इत्यर्थः, उत्तमार्थः-अनशनं 'फिडित' इति भ्रष्टो मार्गात 'ग्लानो' मन्दः, अतिशयः-अतिशययुक्तः, देवताचार्यों प्रतीती, अयं तावदक्षरार्थः । भावार्थस्य भाष्यकार एकैकं द्वारमङ्गीकृत्य प्रतिपादकः। 'यथोद्देशं निर्देश' इति न्यायादत्राद्यद्वारमाश्रित्य यो विधिरसावभिधीयते-इहाशिवमेकाकित्वस्य हेतुत्वे वर्तते, तस्मात्तथा कर्तव्यं यथा तन्न भवत्येव ॥ केन पुनः प्रकारेण तन्न भवतीति चेत्स उच्यते
संवच्छरबारसरण होही असिवंति ते (तह) तओ णिति ।
सुत्तत्थं कुवंता अइसयमाईहिं नाऊणं ॥ १५ ॥ (भा०) व्याख्या-सँवताराणां द्वादशकं, दश च द्वौ च द्वादश, तेन भविष्यत्यशिवमिति ज्ञात्वा 'त' इति (तइत्ति) तदैव 'तत' इति तस्मात्क्षेत्रात् 'णिति' निर्गच्छन्ति, सूत्रपौरुषीमर्थपौरुषी च 'कुर्वन्तः' निष्पादयन्तोऽन्यदेशमभविष्यदशिवं विश्वस्ताः संक्रामन्ति । कथं पुनर्ज्ञायते?-अतिशय आदिर्येषां तेऽतिशयादयो ज्ञानहेतवस्तैः॥ अतिशयादि प्रतिपादयन्नाह
अइसेस देवया वा निमित्तगहणं सयं व सीसो वा।
परिहाणि जाव पत्तं निग्गमणि गिलाणपडिबंधो॥ १६॥ (भा०) अतिशयः-अवध्यादिस्तदभावे क्षपकादिगुणाकृष्टा देवता कथयति, अहवा आयरिएणं सुत्तत्थेसु णिम्माएण सयमेव । अथवा आचार्येण सूत्रार्थयोर्निर्मातेन (कुशलेन ) स्वयमेव