________________
मक्खिओ ताहे न घेप्पइ, सो अथिरो होइ, जो मिट्ठतिलतेल्लमक्खिओ सो घेप्पइ । कथं पुनर्जिघणं करोति ?, नासिकया अस्पृशन् । जिंधणा इति अवयवो भणिओ । इदानीं 'छक्कायजयण'त्ति व्याख्यानयन्नाह -
हरिए बीए चले जुत्ते, वच्छे साणे जलट्ठिए । पुढवी संपाइमा सामा, महवाते महियामिए ॥ ३८७ ॥ हरिते बीजे वा तच्छकटं प्रतिष्ठितं भवति ततश्च तत्र न ग्राह्यो लेपः, तथा तत्कदाचिच्छकटं 'चलं' गमनाभिमुखं व्यवस्थितं भवति ततश्च न ग्राह्यः, तथा युक्तं वा वहति तदाऽपि न ग्राह्यः कदाचित्तस्मिन् शकटे वत्सको बद्धो भवति तदासन्नो वा ततश्च न ग्राह्यः, श्वा वा तत्र बद्धः तथापि न ग्राह्यः, जलमध्ये तत् शकटं व्यवस्थितं भवति ततो न ग्राह्यः कदाचिच्च सचित्तपृथिवीप्रतिष्ठितं भवति तथापि न ग्राह्यः कदाचित्संपातिमसत्त्वैः स प्रदेशो व्याप्तस्ततश्च न ग्राह्यः तथा श्यामा - रात्रिस्तस्यां च न ग्राह्यः, महावाते च वाते सति न गृह्यते, 'महिकायां' धूमिकायां निपतन्त्यां न गृह्यते, अमितश्चासौ लेपो न गृह्यते किन्तु प्रमाणयुक्तः । द्वारगाथेयम्, इदानीं भाष्यकृद्व्याख्यानयति, तत्राद्यावयवव्या चिख्यासयाऽऽह—
हरिए बीएस तहा अणंतरपरंपरेवि य चउक्का । आया दुपयं च पतिट्ठियंति एत्थंपि चउभंगो ॥ २०४ ॥ ( भा० )
हरिते बीजे च द्वौ चतुष्कौ भवतः, कथम् ?, अनन्तरपरम्परकल्पनया, एतदुक्तं भवति - हरितबीजयोरनन्तरप्रतिष्ठितत्वमाश्रित्य भङ्गचतुष्टयं निष्पाद्यते, तथा तयोरेव हरितबीजयोः परम्परप्रतिष्ठितत्वमाश्रित्य द्वितीयभङ्गचतुष्टयं निष्पाद्यते । अत्र चेयं भावना - अनंतरं हरिते पतिट्ठिया गड्डी बीए अ अनंतरं पतिट्ठिआ, एगो भंगो १ । तहा अणंतरहरिए पतिडिआ