SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ न केवलं गुरुमेव पृच्छति शेषानपि साधून पृष्ट्वा 'कृतोत्सर्गः ' कृतोपयोगो गुरुं नमस्कृत्य, किं करोतीत्यत आह'मल्लकरूवे गिण्हइ' मलकं-शरावं यत्र लेपो गृह्यते रूतं च गृह्णाति तेनासौ लेपो छाइज्जइ, मल्लकरूतयोश्च कदा ग्रहणं करोति ?, यदा तयोः कल्पिको भवति, एतदुक्तं भवति - यद्यसौं वस्त्रैषणायां पात्रैषणायां च गीतार्थस्ततो मल्लकं रूतं च मार्गयित्वा गच्छतीति । गीत्थपरिग्गाहिअ अयाणओ रूवमल्लए घेत्तुं । छारं च तत्थ वच्चइ गहिए तसपाणरक्खट्ठा ॥ ३८२ ॥ अथासौ मलकरुतयोर्मार्गणे न कल्पिकस्ततो गीतार्थपरिगृहीते - स्वीकृते मल्लकरुतौ गृहीत्वा क्षारं च भूतिं गृहीत्वा तत्र मल्लके व्रजति, गृहीते लेपे सति चीरमुपरि दत्त्वा लेपस्य ततो रूतं तत उपरि भूतिं ददाति, किमर्थं १, त्रसप्राणरक्षार्थमिति । इदानीं यदुक्तमासीच्चोदकेन यदुत सागारिकगन्यां लेपग्रहणं न कार्यं यतोऽसौ शय्यातरपिण्डो वर्त्तत इति, तत्प्रतिषेधनायाह वचतेण य दिहं सागारिदुचक्कगं तु अवभासे । तत्थेव होइ गहणं न होइ सो सागरिअपिंडो ॥ ३८३ ॥ व्रजता साधुना लेपग्रहणार्थं यदि दृष्टं सागारिकसंबन्धि द्विचक्रं - गन्त्रिका अभ्यासे - समीपे ततस्तत्रैव ग्रहणं कर्त्तव्यं न भवत्यसौ सागारिकपिण्डः - शय्या तरपिण्डोऽसौ न भवति । इदानीमसौ गत्वा किं कृत्वा लेपं गृह्णातीत्यत आह गंतुं दुचकमूलं अणुन्नवेत्ता पहुंति साहीणं । एत्थ य पहुत्ति भणिए कोई गच्छे निवसमीवे ॥ ३८४ ॥ गत्वा 'द्विचक्रमूलं' गन्त्रीसमीपं, यदि तत्प्रभुः 'खाधीनः' सन्निहितो भवति ततस्तमनुज्ञाप्य गृह्यते, अथ तत्र गन्न्या | आसन्नः प्रभुर्नास्ति ततश्चासौ साधुः पृच्छति कोऽत्र प्रभुः ? इति, पुनश्चैवं पृष्टे सति कश्चित्पुरुष एवं ब्रूयाद्, यदुत 'एस्थ
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy