SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ PRAKASAM |च लेपार्थ गच्छन् स साँधुः कदाचिदासन्न एव 'सागारिए'त्ति सागारिकः-शय्यातरस्तच्छकटानि यदि पश्यति ततस्तेष्वेव | लेपं गृहाति, न तत्र गृहृतः शय्यातरपिण्डदोषो भवति, 'पभुत्ति तेन साधुना लेपं गृह्णता यस्तेषां शकटानां प्रभुः स पृच्छनीयः, अप्रच्छने दोषा भवन्ति । तथा लेपस्य जिघ्रणं कर्तव्यं, किमयं कटुरकटुवा , तथा षटकाययतना च कार्या, इत्येतत्सर्वं वक्ष्यति । इदानीं एतामेव गाथां भाष्यकारों व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽहचोदगवयणं गंतूण लिंपणा आणणे बह दोसा । संपाइमाइघाओ अतिउत्वरिए य उस्सग्गो ॥ १९८ ॥ (भा)। | चोदकस्य वचनं, किं तद् ?, गत्वा लेपनं पात्रकस्य कर्त्तव्यं, यत आनयने लेपस्य बहवो दोषा भवन्ति, कथं ?, यदि तावद्धस्तेनानीयते लेपस्ततो हस्तस्य बाधोपजायते, तथा संपातिमसत्त्वघातो भवति, अत्युद्धरिते च तत्र लेपे 'उत्सर्गः परिष्ठापनं भवति तत्र चासंयमस्तस्मात्तत्रैव गत्वा लिम्पतु । एवमुक्ते सत्याह गुरुः| एवंपि भाणभेओ वियावडे अत्तणोय उवघाओ।नीसंकियं च पायंमि गिण्हणे इहरहा संका॥१०॥(भा) एवमपि गत्वा भाजन लिम्पतो भाजनभेदो भवति, व्यापृतस्य च-आकुलस्य पात्रकलेपने गन्त्र्याश्चलने सत्यात्मोपघातो |भवति, तथा प्रकटं तत्रैव पात्रे लेपग्रहणं कुर्वतो निःशवं लोकस्य भवति यदुतैतेऽशुचयः येनाशुचिना लेपेन पात्रफलेपनं कुर्वन्ति । 'इहरहा संक'त्ति इतरथा यदि तत्पात्रं तत्र प्रकटं न लिप्यते ततो लोकस्य इँव केवला भवति, यदुत नद्र विद्मः किमप्यनेन लेपेनैते करिष्यन्ति ?, ततः प्रतिश्रय एवागत्य लेपना कर्त्तव्या। चोएइ पुणो लेवं आणे लिंपिऊण तो हत्थे। अच्छउ धारेमाणो सहवनिक्खवपरिहारी॥२००। COACHCRACCOUNCEMKAKK R OSAROKARMA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy