________________
अन्यालाभे सति स चापोहः प्रतिलेखना भवति, प्रतिलेखनं प्रतिलेखना, प्रति प्रत्यागमानुसारेण निरूपणमित्यर्थः, सा च प्रतिलेखना। प्रेक्षणं प्रेक्षणा, प्रकर्षेणेक्षणं दर्शनं प्रेक्षणेत्युच्यते, सा च प्रतिलेखना। निरीक्षणं निरीक्षणा, निः-आधिक्ये 'ईक्ष दर्शने' अधिकं दर्शनं निरीक्षणेत्युच्यते, अपिशब्दादन्योपसर्गयोगे चैकार्थिकसंभवो यथा-उपेक्षणेति, चशब्दादा भोगादीनां च शब्दानां ये पर्यायशब्दास्तेऽपि प्रतिलेखनाद्वारस्य पर्यायशब्दाः । आलोकनमालोकः, मर्यादयाऽभिविधिना वा लोकनमित्यर्थः । प्रलोकनं प्रलोकना, प्रकर्षेणालोकनमित्यर्थः । 'एगट्ठा' इति एकार्थिकान्यमूनि अनन्तरोद्दिष्टानि भवन्ति । पुंल्लिङ्गता च प्राकृतलक्षणवशाद्भवत्येव, यथा- जसो तवो सल्लो, नपुंसकलिङ्गा अपि शब्दाः पुंल्लिङ्गाः प्रयुज्यन्ते एवमत्रा - पीति व्याख्याते सत्याह परः - प्रतिलेखनं नपुंसकं, अत्र तु कानिचिन्नपुंसकानि कानिचित्स्त्रीलिङ्गानि कानिचित्पुंल्लिङ्गानि, तत्र नपुंसकस्य नपुंसकान्येव वाच्यानि तत्कथमिति, अत्रोच्यते, एकं तावत्प्राकृत शैलीमङ्गीकृत्य नपुंसकस्यापि स्त्रीलिङ्गपुँल्लिङ्गैः पर्यायाभिधानमदुष्टं तथाऽन्यत्प्रवीजनं, संस्कृतेऽप्येकस्यैव शब्दस्य त्रयमपि भवति, यथा तटस्तटी तटमिति, तदत्र भिन्नलिङ्गाः शब्दाः केन कारणेन पर्यायशब्दा न भवन्तीति ॥ आह-प्रतिलेखनाग्रहणेन किं सैव केवला गृह्यते? किमन्यदपि ?, अन्यदपि किं तत् ?, 'पडिलेहओ य' इत्यादि, अथवा का पुनरत्र प्ररूपणा ? इति तदर्थं ब्रवीति —
पडिलेहओ य पडिलेहणा य पडिलेहियवयं चेव । कुंभाइसु जह तियं परूवणा, एवमिहपि ॥ ४ ॥ प्रतिलिखतीति प्रतिलेखकः - प्रवचनानुसारेण स्थानादिनिरीक्षकः साधुरित्यर्थः, चशब्दः सकारणादिस्वगतभेदानां समु| श्चायकः, प्रतिलेखनं प्रतिलेखना “दुविहा खलु पडिलेहा" इत्यादिना ग्रन्थेन वक्ष्यमाणलक्षणा, चशब्दो भेदसूचकः,