SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अच्छोडपिट्टणासु त ण धुवे धावे पतावणं न करे। परिभोगमपरिभोगे छायातव पेह कल्लाणं ॥ ३५७॥ इदानीं स साधुः प्रक्षालयन् कर्पटानि नाच्छोटयति रजकवत् , नापि च पिट्टयति काष्ठपिट्टनेन स्त्रीवत्, किन्तु हस्तेन | मनाग यतनया धावनं करोति, धौतानि च वस्त्राणि नातपे प्रतापयति, मा भूत्तत्र काचित् षट्पदी, स्यात् कानि पुनरातपे कार्याणि कानि वा न ? इत्याह- परिभोगमपरिभोगे'त्ति तानि कर्पटानि द्विविधानि भवन्ति-परिभोग्यानि अपरिभोग्यानि च, तत्र यथासङ्ख्येन छायातपयोः कार्याणि, परिभोग्यानि छायायां शोष्यन्ते, मा भूत्तत्र षट्पदी स्यात् , अपरिभोग्यान्यातपे, 'पेहे'त्ति तानि च कर्पटानिशुष्यन्ति सन्ति निरूपयत्यपहरणभयात्। 'कल्लाणगंति पश्चात्तस्य प्रक्षालनप्रत्ययमेककल्याणकं प्रायश्चित्तं दीयते । उक्तोऽप्कायः, साम्प्रतमग्निकाय उच्यते इगपागाईणं बहुमज्झे विजुयाइ निच्छइओ । इंगालाई इयरो मुम्मुरमाई य मिस्सो उ॥ ३५८ ॥ __ असावपि त्रिविधः, तत्र सचित्त इष्टकापाकादीनां बहुमध्ये विद्युदादिको नैश्चयिको भवति, अङ्गारादिश्चेतरो व्यावहारिकः मुर्मुरादिकः-उल्मुकादिमिश्रो भवति । इदानीमचित्ताग्निकायस्योपयोगमचित्ताग्निशरीरोपयोगं च दर्शयन्नाह ओदणवंजणपाणगआयामुसिणोदगं च कुम्मासा । डगलगसरक्खसूई पिप्पलमाई य परिभोगो ॥ ३५९॥ । ओदनं-कूरादि व्यञ्जनं-तिम्मणं पानक-आचाम्लं आयाम-अवश्रावणं उष्णोदक कुल्माषाश्च, एतानि अग्नेनिर्वानि कार्याणि, ततश्चैभिरुपयोगः क्रियते । इदानीमग्निनिर्वर्तितशरीरोपभोगं दर्शयन्नाह-डगलका-इष्टकाखण्डा अतीव पक्काः सरक्खो-भस्म सूच्यः पिप्पलकः-क्षुरकः, एवमादिभिरचित्तैरग्निशरीरैरुपयोगः क्रियते, अग्निशरीराणि च द्विविधानि भव POLICADACHEACANCER -6.
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy