________________
पात्रस्य 'पडोयार' परिकरणं पात्रबन्धादिकं न विश्रामयेत्, तथा 'दुन्नि निसजेत्तिरजोहरणनिषद्याद्वयं एका और्णिका बाह्यनिषद्या द्वितीया मध्यवर्तिनी क्षोमनिषद्या इदं द्वयं न विश्रामणीयं 'तिपत्ति एकः संस्तारकपट्टको द्वितीय उत्तरपट्टकः तृतीयश्चोलपट्टकः 'पोत्ति'त्ति मुखवस्त्रिका रजोहरणं-प्रतीतमेव एतानि न विश्रामयेत्, यतो नान्यान्यनुपभोग्यानि सन्ति । तत्र च षट्पदसङ्क्रमणं कथमित्याह-'जयणा संकमणा' यतना वस्त्रान्तरितेन हस्तेनान्यस्मिन् वस्त्रे षट्पदीः सङ्कामयति ततो धावनं करोति । इदानीं शेषमुपधि विश्रामयतो विधिमाह-
. अभितरपरिभोगं उरि पाउणइ णातिदूरे यातिनि यतिन्नि य न एक निसि उं काउं पडिच्छेजा ॥ ३५३॥ | 'अभितरपरिभोग' क्षोमकल्पं शेषकल्पयोरुपरि प्रावृणोति, कतराः?, त्रयस्तित्र इति वक्ष्यति, तथा नातिदूरे नात्यासन्ने तमेव कल्पं रात्रित्रयमेव स्थापयति, 'तिन्नि य तिन्नि यत्ति पदद्वयं योजितमेव द्रष्टव्यं, एक निसिङ काउंति एका रत्रिमात्मोपरि कीलकादौ स एव कल्पः स्थाप्यते । 'पडिच्छेज'त्ति एवं सप्त दिनानि परीक्षा कार्या । अथवा 'परिक्खेज'त्ति एवं सतवाराः कृत्वा पुनश्च शरीरे वस्त्रं प्रावृत्य परीक्षणीयं, यदि षट्पद्यो न लगन्ति ततः प्रक्षालनीयमिति ॥
केई एक्वेकनिसिं संवासेउं तिहा पडिच्छति । पाउणियजयणलग्गति छप्पया ताहे धोवेजा ।। ३५४॥ केचनाचार्या एवमाहुः-'एकेकनिसिं संवासे'ति अयमत्रार्थः-तमभ्यन्तरं कल्पं क्षोममितरकल्पयोरुपरि एकां रात्रिं प्रावृणोति, पुनरपरस्यां रात्रावात्मासन्ने स्थापयति, पुनरपरस्यां रात्रौ आत्मोपरि कीलकादौ लम्बमानं करोति, एवं त्रिरात्रं