SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥१३१॥ तथा प्लवनेन च सत्त्ववधो भवति, तथाऽऽत्मोपघातश्च भवति हस्ते कण्डकंपतनादिति । आह-यद्येवं न धावितव्यान्येव चीवराणि, उच्यते, वर्षाकाले प्रक्षालयितव्यानि, अथ न प्रक्षाल्यन्ते तत एते दोषा भवन्ति अइभारचुडणपणए सीयलपावरण अजीर गेलन्ने । ओभावणकायवहो वासासु अधोवणे दोसा ॥ ३४९ ॥ मनातिगुरूणि भवन्ति, तथा 'चुंडण' त्तिं जीर्यन्ते पनकश्च तत्र लगति पनकः - फुल्ली, शीतलप्रावरणे चाजीर्ण भवति, ततश्च ग्लानता भवति, तथा 'उवहावणा' परिभवो भवति कायवधश्च भवति, तानि हि आर्द्राणि योतन्ति सन्ति अप्कायादि विनाशयन्ति, एते वर्षास्वधावने दोषाः । कदा प्रक्षालनं कार्यमित्याह अप्पत्ते चिय वासे सबं उवहिं धुवंति जयणाए । असइए व वस्स उ जहन्नओ पायनिज्जोगो ॥ ३५० ॥ वर्षाकाले अप्राप्ते एव अर्द्धमासमात्रेण सर्वमुपधिं प्रक्षालयन्ति यतनया । अथोदकं प्राशुकं प्रचुरं नास्ति ततो जघन्येन 'पात्रनिर्योगं' पात्रकोपकरणं प्रक्षालनीयं येन गृहस्था भिक्षां प्रयच्छन्तो न जुगुप्सन्ते इति । आह-सर्वेषां वर्षपर्यन्त एवोपधिः प्रक्षाल्यते १, न इत्याह आयरियगिलाणाणं महला मइला पुणोवि धोवंति। मा हु गुरूण भवन्नो लोगंमि अजीरणं इयरे ॥ ३५१ ॥ सुगमा || नवरं 'अजीरणं इयरे त्ति इतरेषां ग्लानानां चीवराणि प्रक्षालनीयानि यदि न प्रक्षाल्यन्ते ततोऽजीर्ण भवति । इदानीमुपधिप्रक्षालनकाले कानि न विश्रामणीयानि ? इत्याह पायस्स पडोयारं दुनिसज्जे तिपट्टपोत्तिरयहरणं । एते ण उ विस्सामे जयणा संकामणा धुवणा ॥ ३५२ ॥ पिण्डनिक्षेपः नि. ३४६-३५२ वस्त्रप्रक्ष लनं ॥१३१॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy