SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ SANSARSACARENAGAR अत आह-पोरिसीएगदुगतिर्ग' यथासवेन च 'बहुइंधणमझिधणथोविंधण' यदि बहु इन्धनं स्वल्पः पृथिवीकायस्ततः पौरुषीमात्रं यावत् मिश्रो भवति, मध्ये तु इन्धने अर्द्धमिन्धनस्य अर्द्ध पृथिवीकायस्य यत्र स पौरुषीद्वितयं यावन्मिश्रा स्वल्पेन्धनस्तु पृथिवीकायः पौरुषीत्रयं यावन्मिश्रो भवति । उक्तो मिश्रः, इदाचीमचित्त उच्यते, स चैवं भवति- . सीउण्हखारखत्ते अग्गीलोणूसअंबिले नेहे । वकंतजोणिएणं पओयणं तेणिमं होंति ॥ ३४०॥ शीतशस्त्राभिहत: उष्णशस्त्राभिहितः क्षार:-तिलक्षारादिस्तेनाभिहतो यःक्षत्रशस्त्रेणाभिहतः, क्षत्रं-करीपविशेषः, अग्निशस्त्राभिहतः लवणशस्त्राभिहतः (अवश्यायशस्त्राभिहितः) काञ्जिकशस्त्राभिहतः, स्नेहेन-घृतादिना शस्त्रेणाभिहतः सन् यो व्युत्क्रान्तयोनिका, अथवा 'विकंतजोणिएवि य' केचित्पठन्ति, तत्रायमर्थः-व्युत्क्रान्ता-अपगता योनिः स्वयमेव यस्य पृथिवीकायस्य तेन च 'इदं वक्ष्यमाणं प्रयोजनं भवति । किं तत्प्रयोजनमित्यत आह| अवरद्धिग विसबंधे लवणेण व सुरभिउवलएणं च । अचित्तस्स उ गहणं पओयणं होइ जं चऽन्नं ॥ ३४१॥ । अवरद्धिगा-लूता फोडिआ तस्यां लूतास्फोटिकायामुत्थितायां दाहोपशमार्थमचेतनेन पृथिवीकायेन परिषेकः क्रियते. यदिवा अवरद्धिगा-सर्पदंशस्तस्मिन् परिषेकादि क्रियते, दंशे विषे वा पतिते सति तयाऽचेतनया मृत्तिकया बन्धो दीयते, 15 लवणेन वा प्रयोजनमचित्तेन भवति, 'सुरहितोवलएणं वत्ति गन्धारोहकेणापि किश्चित्प्रयोजनं भवत्यामादौ, एभिः प्रयोजनैरचेतनस्य पृथिवीकायस्य ग्रहणं भवति-प्रयोजनं भवति । इदं च वक्ष्यमाणलक्षणमन्यत्
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy