SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ स्थापना द्विविधा-सहावस्थापना असद्भावस्थापना चेति, सम्राक्षविषया सद्भावस्थापना असद्भाव स्थापना च भवति, कथं १, यदा एक एवाक्षः पिण्डकल्पनया बुद्ध्या कल्प्यते तदाऽसद्भावस्थापना, यत्र पुनस्त एवाक्षास्त्रिप्रभृत्य एकत्र स्थाप्यन्ते तदा सद्भाव स्थापना, एवं 'वराटकेषु' कपर्दकेषु, तथा काष्ठकर्मणि वेति, यदैकमेव काष्ठं पिण्ड एष इत्वेवं कल्प्यते तदाऽसद्भावस्थापना, यदा तु एकत्र बहूनि मिलितानि पिण्डत्वेन कल्प्यन्ते तदा सद्भावस्थापना, एवं 'पुस्ते ' भीलिकादौ पुतलिकादिष्वपि एवं चित्रकर्मण्यपि, यदैकचित्रकर्मणि पुत्तलपिण्ड इति स्थाप्यते तदाऽसद्भावपिण्डस्थापना यदा त्रिप्रभृति पिण्डबुद्ध्या कल्प्यते तदा सद्भावस्थापना, एवं सद्भाषपिण्डमसद्भावपिण्डं च जानीहि । इदानीं द्रव्यपिण्डस्य ज्ञशररी भव्यशरीरव्यतिरिक्तस्य प्रतिपादनायाह - तिविहो य दवपिंडो सचितो मीसओ य अचित्तो । अचित्तो य दसविहो सधितो मीसओ नवहा ॥ ३३५ ॥ त्रिविधो द्रव्यपिण्डः - सचित्तोऽचिचो मिश्रश्चेति, तत्र योऽसावचित्तः स दशविधः सचित्तो नवप्रकारः मिश्रश्च नक्धा ॥ तत्राचित्तपिण्डप्रतिपादनायाह · पुढची आउलए तेउवाकवणस्सई चेव । बिअतिअचउरो पंचिंदिया य लेवो य दसमो उ ॥ ३३६ ॥ पृथिवीका पिण्डः अष्काय पिण्डस्तेजस्काय पिण्डः वायुकायपिण्डः वनस्पतिका पिण्डः द्वीन्द्रियपिण्डः त्रीन्द्रियपिण्डः चतुरिन्द्रियपिण्डः पचेन्द्रियपिण्डः पात्रका केप पिण्डश्चेति दशमः । एवमयं दशप्रकारोऽचितपिण्डः, इदानीं योऽसौ
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy