________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥१२८॥
fieet उ निक्dयो चउकओ छकओ व कायदो । निक्खेवं काऊणं परूवणा तस्स कायवा ॥ ३३९ ॥ तत्र पिण्डनं - पिण्डः, 'पिण्ड सङ्घाते', पिण्ड इत्यस्य पदस्य निक्षेपः कर्त्तव्यः, स च निक्षेपकञ्चतुष्ककः क्रियते षट्को वा, एवं निक्षेपं कृत्वा प्ररूपणा - व्याख्या तस्यैव पिण्डस्य कर्त्तव्या ॥ तत्र चतुष्ककनिक्षेपं प्रतिपादयन्नाह -
नामं ठवणापिंडो दक्षपिंडो य भावपिंडो य । एसो खलु पिंडस्स उ निक्खेवो चउष्विहो होइ ॥ ३३२ ॥ नामपिण्डः स्थापनापिण्डो द्रव्यपिण्डो भावपिण्डश्चेत्येष तावच्चतुष्कको निक्षेपः, यदा पुनः क्षेत्रपिण्डः कालपिण्डश्च निक्षिप्यते तदाऽयमेव षट्को वा भवति, तत्र नामपिण्डः - पिण्ड इति नाम यस्य स नामपिण्डः । तच्चगोणं समयकथं वा जं वावि हवेज्ज तदुभएण कयं । तं बिंति नामपिण्डं ठेवणापिंडं अओ वोच्छं ॥ ३३३ ॥
तच्च नाम गोण्णं भवति यथा गुडपिण्डं इति, तथाऽन्यत्समयकृतं भवति, समयः - सिद्धान्तस्तेन कृतं यथा “से भिक्खू वा भिक्खुणी वा गाहाबइकुलं पिंडवायपडियाए पविट्ठे समाणे जं जाणेज्जा अंबपाणगं वा" इत्यादि, यद्यप्यसौ पानकस्य द्रवस्वभावस्य (कृते) प्रविष्टस्तथाऽप्यसौ पिण्डार्थं प्रविष्ट इत्युच्यते, एष समय सिद्धः पिण्डः, यद्वा नाम भवेत्तदुभयेन कृतं - लोकलोकोत्तरवृत्तं वा यन्नाम भवेत्, यथा 'गाहावइकुलं पिंडघायपडियाए पविद्वेण पिंडो चेव सप्तगाणं केरओ लद्धओ गुडपिंडो वा” तत्र लोके गुडपिण्डकः गुडपिण्डक एवोच्यते, समयेऽप्येवमेव पिण्डक उच्यते, एवमेवंगुणविशिष्टं सर्वमेव नामपिण्डं बते, अत ऊर्द्ध स्थापना पिण्डं वक्ष्य इति ।
अक्खे बराडए वा कट्ठे पोत्ये व चित्तकम्मे वा । सम्भावमसन्भावा ठवणापिंडं वियाणाहि ॥ ३३४ ॥
* प्रतिलेखना समाप्तिः नि. ३२८-३२९
पिण्डनिक्षे
पः नि.
३३०-३३४
॥१२८॥