________________
पात्रं चान्विषति सति प्रामादौ भवेत् पथि विराधना द्विविधा-आत्मविराधना संयमविराधना च, पथि स्तेनाश्च द्विप्रकारा भवन्ति-उपधिस्तेनाः शरीरस्तेनाश्च, लब्धेऽपि कृच्छ्रात्पात्रके तत् परिकर्मयतः-तद्व्यापारे लग्नस्य सूत्रार्थपरिहानिःना
एसा पडिलेहणविही कहिआ भे धीरपुरिसपन्नत्ता। संजमगुणड्डगाणं निग्गंथाणं महरिसीणं ॥ ३२८ ॥
अयं च प्रत्युपेक्षणाविधिः कथितो 'भे' भवतां, किंविशिष्टः?-धीरपुरुषैः प्रज्ञप्तः' गणधरैः प्ररूपितः, संयमगुणैराढ्यानां निर्ग्रन्थानां 'महर्षीणां' सत्यवादिनां कथित इति ॥ तथा
एयं पडिलेहणविहिं जुजंता चरणकरणमाउत्ता। साहू खवंति कम्मं अणेगभवसंचिअमणंतं ॥ ३२९॥ एतं प्रत्युपेक्षणाविधिं 'युञ्जन्तः' कुर्वाणाः चरणकरणयोगयुक्ताः सन्तः साधवः क्षपयन्ति कर्म, किंविशिष्टम् ?-'अनेकभवसश्चितम्' अनकभवोपात्तम् 'अनन्तम्' अनन्तकर्मपुद्गलनिवृत्तत्वात्तदनन्तमिति, अनन्तानां वा भवानां हेतुर्यतत्तदनन्तं क्षपयन्तीति । उक्तं मार्गप्रत्युपेक्षणाद्वारं, तत्प्रतिपादनाच्चोक्तं प्रत्युपेक्षणाद्वारमिति प्रतिलेखनाद्वारं समाप्तं ॥
इदानीं पिण्डद्वारप्रतिपादनायाह8 पिंडं व एसणं वा एत्तो वोच्छं गुरूवएसेणं । गवसणगहणघासेसणाएँ तिविहाए विसुद्धं ॥ ३३०॥ ा पिण्डं वक्ष्ये एषणां च, एषणा गवेषणा तां च अतः परं वक्ष्ये, गुरूपदेशेन न स्वमनीषिकया, सा चैषणा त्रिविधा भवति-गवेषणैषणा ग्रहणैषणा ग्रासैषणा चेति, अनया त्रिविधयाऽप्येषणया विशुद्धः-शुचिर्यः पिण्डस्तं वक्ष्य इति योगः।। 'यथोद्देशं निर्देश' इतिन्यायात्प्रथमं पिण्डमेव व्याख्यानयन्नाह
CCCCCEBOX