________________
श्री ओघनियुक्तिः द्रोणीया वृत्तिः
॥१२७॥
सर्वासु दिक्षु पश्यन् स एवंविधो बादरकायानपि व्यापादयेत् 'सेतरांश्च' पृथिव्यादीन् स्थावरकायान् ततश्च 'संयमे' संयमविषया एते दोषा भवन्तीति । इदानीं शरीरविराधनां प्रतिपादयन्नाह —
निरवेक्खो वचतो आवडिओ खाणुकंटविसमेसु । पंचण्ह इंदियाणं अन्नतरं सो विराहेजा ॥ १८९ ॥ ( भा० ) निरपेक्षो व्रजन् आपतितः सन् स्थाणुकण्टकविषमेषु विषमम्-उन्नतं तेष्वापतितः पञ्चानामिन्द्रियाणां - चक्षुरादीनां अन्यतरत् स विराधयेत् । इदानीं 'भत्तपाणे य'त्ति अवयवं व्याख्यानयन्नाह -
भत्ते वा पाणे वा आवडियपडियस्स भिन्नपाए वा । छक्कायविओरमणं उड्डाहो अप्पणो हाणी ॥ १९०॥ (भा०) आपतितश्चासौ पतितश्च २ तस्य साधोः भिन्ने भन्ने वा पात्रके सति भक्ते वा प्रोज्झिते पानके वा ततः षट्कायव्युपरमणं भवति, उड्डाहश्च भवति आत्मनश्च 'हानिः' क्षुधा बाधनं भवति ततः पुनः षट्कायव्युपरमणमुड्डाहश्च । दहि घय तकं पयमंबिलं व सत्थं तसेतराण भवे । खर्द्धमि य जणवाओ बहुफोडों जं च परिहाणी ॥ १९९॥ भा०)
तानि गृहीतानि कदाचिद्दधिघृतत कपयः काञ्जिकानि भवन्ति, ततश्च तानि शस्त्रं, केषां १ - त्रसानामितरेषां च पृथि व्यादीनां भवेत्, 'खर्द्धमि'त्ति प्रचुरे च तत्र भक्के लोकेन दृष्टे सति जनापवादो भवति - उड्डाहः, यदुत 'बहु फोड़े त्ति बहुभक्षका एत इति, या चात्मपरितापनिकादिका परिहाणिः सा च भवति । तथा पात्रविराधनायां याचनादोषान् प्रदर्शयन्नाह - पत्तं च मग्गमाणे हवेज्ज पंथे विराहणा दुविहा । दुविहा य भवे तेणा परिकम्मे सुत्तपरिहाणी ॥ ३२७ ॥
भवष्टम्भप्रत्यु. नि. ३२४ मार्गप्रत्यु. नि. ३२५०
३२६ भा. १८८-१९१ बि. ३२७
॥१२७॥