SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ओ० २२ अतरंतस्स उ पासा गाढं दुक्खंति तेणऽवभे । संजयपट्टी थंभे सेल छुहाकुड्डुविट्टीए ॥ ३२४ ॥ 'अतरंतस्स' अशक्नुवतो ग्लानादेः पार्श्वानि गाढं अत्यर्थ दुःखंति तेन कारणेनावष्टम्भं कुर्वन्ति, अत आह-संयतपृष्ठे स्तम्मे वा 'सेल'त्ति पाषाणमये स्तम्भे सुधामार्थे कुड्ये वाऽवष्टम्भं कुर्वीत, उपधिकां विण्टिकां वा कुड्यादौ कृत्वा ततोऽवष्टम्भं करोति । उक्तमषष्टम्भद्वारम्, इदानीं मार्गद्वारं प्रतिपादयन्नाह पंथं तु वच्चमाणा जुगंतरं चक्खुणा व पडिलेहा । अइदूरचक्खुपाए सुमतिरिच्छग्गय न पेहे ॥ ३२५ ॥ पथि व्रजन् 'युगान्त' युगं - चतुर्हस्तप्रमाणं तन्मात्रान्तरं चक्षुषा प्रत्युपेक्षेत, किं कारणं ?, यतोऽतिदूरचक्षुःपाते सति सूक्ष्मांस्तिर्यग्गतान् प्राणिनः 'न पेहे' न पश्यति, दूरे दूरे प्रहितत्वाच्चक्षुषः । अच्चासन्ननिरोहे दुक्खं दहुंपि पापसंहरणं । छक्कायविओरमणं सरीर तह भत्तपाणे य ॥ ३२३ ॥ अत्यासन्ने निरोधं करोति चक्षुषस्ततो दृष्ट्वाऽपि प्राणिनां दुःखेन पादसंहरणं, पादं प्राणिनि निपतन्तं धारयतीत्यर्थः, अतिसन्निकृष्टत्वाच्चक्षुषः । 'छक्कायविउरमणं' ति षट्कायानां विराधनं भवति, शरीरविराधनां तथा भक्तपानविराधनां करोतीति । इदानीमस्या एव गाथायाः पश्चार्द्ध व्याख्यानयन्नाह उहमुहो कहरत्तो अवयवंतो विषक्खमाणो य । बातरकाए वहए तसेतरे संजमे दोसा ॥ १८८ ॥ ( भा० ) ऊर्द्धमुखो ब्रजन् कथासु च रक्तः-सकः 'अवयक्तोति पृष्ठतोऽभिमुखं निरूपयन् 'वियक्खमाणो 'त्ति विविध 24-5-7-54 %
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy