________________
STUGGAGAWISHGASSASAS
वौधनियुक्तिं प्रतिपादयति इति, अत्रोच्यते, अविज्ञायैव परमार्थ भवतैतच्चोद्यते, इह हि वन्दनादिक्रिया प्रतिपादितैवासाधारणनामोद्घट्टनादेव, तथाहि-अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तः, तदनेनैव स्तवोऽभिहितः, एवं चतुदशपूर्वधरादिष्वपि योजनीयं, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-'पडिलेहणं' इति, 'लिख अक्षरविन्यासे' प्रतिलेखनं प्रतिले-14 खना तां वक्ष्याम इति, एतदुक्तं भवति-आगमानुसारेण या निरूपणा क्षेत्रादेः सा प्रतिलेखनेति । चशब्दात्प्रतिलेखक प्रतिलेखनीयं च वक्ष्ये । अथवाऽनेकाकारां प्रतिलेखनां च वक्ष्ये, उपाधिभेदात् । 'पिंडति पिण्डनं पिण्डः-सङ्घातरूपस्तं पिण्डं, वक्ष्य इति प्रत्येकं मीलनीय, भिक्षाशोधिमित्यर्थः । 'उपधिप्रमाणं' इति उपदधातीत्युपधिः, उप-सामीप्येन संयम धारयति पोषयति चेत्यर्थः, स च पानादिरूपस्तस्य प्रमाणं, तच्च गणनाप्रमाणं प्रमाणप्रमाणं च । 'अणाययणवज' इति नायतनमनायतनं तद्वयं-त्याज्यमित्येतच्च वक्ष्ये, अथवाऽनायतनवय॑मायतनं, तदायतनं वक्ष्ये, तच्चानायतनं स्त्रीपशु-15 पण्डकसंसक्तं यद्वर्तते, तद्विपरीतमायतनं । 'पडिसेवणं' इति प्रतीपा सेवना प्रतिसेवना, एतदुक्तं भवति-संयमानुष्ठानात्प्रतीपमसंयमानुष्ठानं तदासेवना ताम् । 'आलोयण' इति आलोचनमालोचना अपराधमर्यादया लोचनं-दर्शनमाचार्यादेरालोचनेत्यभिधीयते, किमालोचनामेव ?, नेत्याह-'जह य' इत्यादि, 'यथा' येन प्रकारेण 'विशोधिः' विशेषेण शोधिर्वि-15 शोधिः, एतदुक्तं भवति-शिष्येणालोचितेऽपराधे सति तद्योग्यं यत्प्रायश्चित्तप्रदानं सा विशोधिरभिधीयते, तां विशोधि । केषां संबन्धिनी विशोधि ?, तदाह-सुविहितानां' शोभनं विहितम्-अनुष्ठानं येषां ते सुविहितास्तेषां संबन्धिनी यथा * विशोधिस्तथा वक्ष्ये, चशब्दः समुच्चये, किं समुच्चिनोति ?-कारणप्रतिसेवने अकारणप्रतिसेवने च यथा शोधिस्तथा वक्ष्य
SISUSTUSASUSASUSAASASUSAN