SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीओषनिर्युक्तिः द्रोणीया वृत्तिः ॥ ११ ॥ तु विसरे राज्ञा चिन्तितम् सर्वमेव राज्यं मम जनपदायत्तं, यदि जनपदो भवति ततः कोष्ठागारादीनां प्रभवः, जनपदाभावे सर्वाभावः, ततस्तत्संरक्षणार्थं बीजनिमित्तं भक्तनिमित्तं च कोष्ठागारादिधान्यं ददामीति, एवमनुचिन्त्य दापितं तस्य जनपदस्य, कोकश्च स्वस्थः संजातः, पुनर्द्विगुणं त्रिगुणं च प्रेषितं राज्ञ इति ॥ अयं दृष्टान्तः, अधुना दान्तिकप्रतिपादनार्थमाहएवं थेरेहिं इमा अपावमाणाण पयविभागं तु । साहृणणुकंपट्टा उचइट्ठा ओहनिजुती ॥ १४ ॥ ( भा० ) 'एव' मित्युपनयग्रन्थः, यथा गृहपतिना बालादीनामनुकम्पार्थं भक्तं दत्तं राज्ञा च बीजभक्तमनुग्रहार्थमेव दत्तं, एवं स्थविरैरोघनिर्युक्तिः साधूनामनुग्रहार्थं निर्यूढेति, स्थविरा:- भद्रबाहुस्वामिनस्तैः, 'आत्मनि गुरुषु च बहुवचन 'मिति बहुवचनेन निर्देशः कृतः, 'इमा' इति इयं वक्ष्यमाणलक्षणा प्रतिलेखनादिरूपा । किमर्थं निर्यूढा ?, तदाह - 'अपावमाणाणं' इत्यादि, 'अप्राप्नुवतां' अनासादयतां, किमप्राप्नुवतामित्याह-'पदविभागं' वर्तमानकालापेक्षया कल्परूपं, चिरन्तनकालापेक्षया तु दृष्टिवादव्यवस्थितपदविभागसामाचारीमित्यर्थः । तुशब्दादशधासामाचारीं चाप्राप्नुवतां केषामनुकम्पार्थं निर्यूढा ?, तदाह-'साधूनां' ज्ञानादिरूपाभिः पौरुषेयीभिर्मोक्षं साधयन्तीति साधवस्तेषां साधूनां किम् ? -' अनुकम्पार्थ' अनुकम्पा कृपा दया इत्येकोऽर्थः तया अर्थः- प्रयोजनं, 'उपदिष्टा' कथिता 'ओघनिर्युक्तिः' सामान्यार्थप्रतिपादिकेत्यर्थः ॥ आह— अथ केयमोघनिर्युक्तिः या स्थविरैः प्रतिपादिता ?, तत्प्रतिपादनायाह पडिलेहणं१च पिंडं२ उवहिपमाण ३ अणाययणवज्जं ४ । पडिसेवण ५मालोअणजह य विसोही मुविहियाणं ॥२॥ एवं संबन्धे कृते सत्याह पर:- ननु पूर्वमभिहितम्, अर्हतो वन्दित्वौघनिर्युक्तिं वक्ष्ये, तत्किमर्थं वन्दनादिक्रियामकृत्वै अनुकम्पा थो नियुक्तिः भा१३-१४ ॥ ११ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy