________________
शब्दाच्छिवचन्द्रादिग्रहः, 'अणुकम'त्ति अनुक्रमादिति अनुक्रमेणैव - परिपाठ्या, तृतीयार्थे पञ्चमी, 'कारकाणि' कुर्वन्तीति | कारकाणि - उदाहरणान्युच्यन्ते, चत्वारीति यथासंख्येनैवेति ॥ 'अनुग्रहार्थं सुविहितानाम्' इति यदुक्तं तद्व्याख्यानायो
दाहरणगाथा-
बालाईणणुकंपा संखडिकरणंमि होअगारीणं । ओमे य बीयभत्तं रण्णा दिनं जणवयस्स ॥ १३ ॥ ( भा० )
'एव' मित्युपन्यासाद्यथेति गम्यते, ततोऽयमर्थो भवति यथा ह्यगारिणामनुकम्पा भवति बालादीनामुपरि संखडिकरणे, एवं स्थविरैः साधूनामनुकम्पार्थमुपदिष्टौघनिर्युक्तिरिति संबन्धः । अधुनाऽक्षरगमनिका - बालाः शिशवोऽभिधीयन्ते, ते आदिर्येषाम्, आदिशब्दात्कर्मकरादिपरिग्रहः, तेषां बालादीनामुपर्यनुकम्पा दयेत्यर्थः, 'संखडिकरणे' संखड्यन्ते प्राणिनो यस्यां सा संखडिः, अनेकसत्त्वव्यापत्तिहेतुरित्यर्थः, कृतिः करणं संखड्याः करणं संखडिकरणं तस्मिन् संखडिकरणे यथाऽनुकम्पा भवति, केषाम् ? इत्याह- ' अगारिणां' अगारं विद्यते येषां तेऽगारिणस्तेषामगारिणां तथाहि यद्भोजनं प्रहरत्रयोद्देशे भवति तस्मिन् यदि बालादीनां प्रथमालिका न दीयते तवोऽतिबुभुक्षाक्रान्तानां केषाञ्चिन्मूर्च्छागमनं भवति | केचित्पुनः कर्मादि कर्तुं न शक्नुवन्ति ततोऽनुकम्पार्थं प्रथमालिकाद्यसौ गृहपतिः प्रयच्छति, अस्यैव दर्शनार्थ दृष्टान्तान्तरमाह- 'ओम' इत्यादि, अवमं - दुर्भिक्षं तस्मिन्नवमे बीजानि - शाल्यादीनि भक्तम्-अन्नं बीजानि च भक्तं च बीजभक्तमेकवद्भावः 'राज्ञा' नरपतिना दत्तं कस्य ? तदाह - जनपदस्य ॥
कस्यचिद्राज्ञो विषये दुर्भिक्षं प्रभूतवार्षिकं संजातं, ततस्तेन दुर्भिक्षेण सर्वमेव धान्यं क्षयं नीतं, लोकश्च विषण्णः, तस्मिन्न