________________
SARKARRECRGAORA
| तत्रैका काले सञ्ज्ञा भवति अन्याऽकाले सज्ञा भवति, कालो ततियाए'त्ति 'काला' सञ्ज्ञाकालः तृतीयायां पौरुष्यां भवति 'सेसयमकालो'त्ति शेषकाले या सज्ञा भवति साऽकालसञ्जत्युच्यते, पढमपोरिसित्ति तत्राकालसञ्ज्ञा प्रथमपौरुष्यां यदि भवति ततः 'आपुच्छ पाणगत्ति आपृच्छय साधून् , एतदुक्तं भवति-साधूनेवमसान्नापृच्छति यदुत-भवतां किं कश्चिच्चमणभूमि यास्यति न वा ? इति, पुनः 'पाणग'त्ति तदनुरूपं पानकमानयति, किंविशिष्टम् ?-'अपुष्पित तरिकारहितं येन स्वच्छतया उदकभ्रान्तिर्भवति, 'अण्णदिसं'ति अन्यया पत्तनस्य दिशा उदकं गृह्यते अन्यया च दिशा चङ्कमणभूमि प्रयाति येन सागारिकाशङ्का न भवति यदुतैते काञ्जिकेन शौचं कुर्वन्ति ॥ अइरेगगहण उग्गाहिएण आलोअ पुच्छिउं गच्छे । एसा उ अकालंमी अणहिंडिअहिंडिआ कालो॥३१०॥ || अतिरिक्तं च तत्पानकं गृह्यते कदाचिदन्यसाधोः कार्य भवेत् सागारिकपुरस्ताद्वा उच्छोलनादि क्रियते । 'उग्गाहिएणं-12 |ति उदाहितेन-पात्रबन्धबद्धेन पात्रकेण समानीय गुप्तं सत् 'आलोए'त्ति आनीयाचार्यस्य तदालोच्यते, पुच्छिउँ गच्छे'त्ति पुनस्तमेवाचार्य पृष्ट्वा चङ्कमणिकया गच्छति, इयमकाले सञ्ज्ञा अकालसज्ञेत्यर्थः अहिण्डितानां सतां भवति, कालसञ्ज्ञा पुनर्हिण्डितानां-भिक्षाटनकालस्योत्तरकालं भुक्त्वा या भवति सा कालसञ्ज्ञा भवति । अन्ये त्वाहुः-'अणहिं|डिय हिंडियाकालो त्ति अहिण्डितानामर्थपौरुषीकरणोत्तरकाले यका भवति सा कालसझैव, तथा हिण्डितानां भिक्षाभ्रमणभोजनोत्तरकालं या भवति साऽपि कालसोच्यते । भुक्त्वोत्तरकालं या सज्ञा भवति तत्र किं कृत्वा कथं वा | गम्यते ? इत्यत आह- ..