________________
तत्रापातं स्थण्डिलं 'द्विविध"दिप्रकारं वर्तते, कर्थ द्वैविध्यं भवतीत्यत आह-सपक्खपरक्खी यमायचं' सत्र स्वपक्षः-संयतवर्गः परपक्षः-गृहस्थादिः, तत्र स्वपक्षपातं द्विविधं संयतस्वपक्षापातं संयतीस्वपक्षापातं च ।
संविग्गमसंविग्गा संविग्गमणुण्णएयरा चेव । असंविग्गावि दुविहा तप्पक्खियएअरा चेव ॥ २९८॥
तत्र ये ते संयतास्ते संविनाश्च असंविनाश्च, ये ते संविग्नास्ते मनोज्ञा इतरे-अमनोज्ञाश्च, असंविना अपि द्विविधाः'तत्पाक्षिकाः' संविग्नपाक्षिकाः इतरे-असंविग्नपाक्षिकाः निर्द्धर्मा नैव श्लाघन्ते तपस्विनस्तु ये निन्दन्ति । उक्तः स्वपक्षः, इदानीं परपक्ष उच्यतेपरपक्षेवि अ दुविहं माणुस तेरिच्छिअंच नायवं । एक्ककंपि अतिविहं पुरिसित्थिनपुंसगे चेव ॥२९९॥
परपक्षेऽपि च दुविहं स्थण्डिलं मानुषापातं तिर्यगापातं च ज्ञातव्यं, यत्तन्मानुषापातं तत्रिविधं-पुरुषापातं ख्यापातं नपुंसकापातं च, तिर्यगापातमपि त्रिविधं-तिर्यक्पुरुषस्तिर्यस्त्री तिर्यग्नपुंसकम् ।
पुरिसावायं तिविहं दंडिअकोडुबिए य पागइए । ते सोयऽसोयवाई एमेवित्थी नपुंसा य ॥ ३०॥ ... तत्र पुरुषापातं त्रिविधं-'दण्डिकः' राजा 'कौटुम्बिकः' श्रेष्ठ्यादिः 'प्राकृतिकः' प्रकृतिनां मध्ये यः, अयं त्रिविधः पुरुषः, तेषामेकैकस्त्रयाणामपि पुरुषाणां शौचघादी अशौचवादी चेति । 'एमेवित्थी मपुंसा य' त्ति एवमेव दण्डिककौटुम्बिकमाकृतिकरूपाः शौचाशौचवादिनः स्त्रीनपुंसका ज्ञातव्या एभिर्भेदर्भिन्नाः । इदानीं मनुष्याणां मध्ये द्वितीय परपक्षभेदं प्रतिपादयन्नाह