________________
श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः
॥११७॥
पटलानि प्रत्युपेक्ष्य पुनर्गेच्छकं वामहस्तानामिकाङ्गुल्या गृह्णाति ततः पावकेसरिकां-सत्रकमुखवस्त्रिकां पात्रकस्थामेव गृह्णाति, 'चक्कोण' त्ति चतुरः पात्रबन्धकोणान् संवत्यपरिस्थापितान् प्रमार्जयति, पुनर्भाजनस्य कर्ण प्रमार्जयति, पुनश्च पात्रककेसरिकयैय 'तिगुणं' तिम्रो वारा बाह्यतोऽभ्यन्तरतस्तिस्र एव वाराः प्रम्रार्जयति, ततः 'भ्राणस्स' पात्रकस्य पुम्फगं' बुभं ततः एतानि वक्ष्यमाणलक्षणानि कार्याणि यदि न भवन्ति ततः प्रथमं बुभं पात्रकस्य प्रत्युप्रेक्ष्यते । कानि पुनस्तानि कार्याणि १, अत आह
मूलयर उकेरे, घणसंताणए इय । उदए महिआ चैव, एम्रेया पडिवत्तिओ ॥ २९० ॥
कदाचित्तत्र मूषिको ररजो लयं भवति ततस्तद्यतनयाऽपनीयते, तथा घनः सन्तानको वा कदाचित् तत्थ कोलिअतंतुयं लग्गं होइ तद्यतनयाऽपनीयते । तथा 'उदय' त्ति कदाचिदुदकं लग्नं भवति, सार्द्राया भूमेरुन्मज्ज्य लगति, तत्र यतनां वक्ष्यति, 'मट्टिआ चेव' कदाचित् मृत्तिका कोत्थलकारिकायाः संबन्धिनी लगति तत्र यतनां वक्ष्यति एवमेताः प्रतिपत्तय:- प्रकारा-भेदा यदि न भवन्ति ततो बुद्धं प्रत्युपेक्ष्यते । कुतः पुनरुत्केरादिसम्भवः ? इत्यत आहनवगनिवेसे दूराज उकेरो मुखहिं उक्कण्णो । मिद्धमहि हस्तगू वा ठाणं भेत्तूण पविसेज्जा ॥ २९१ ॥
'नवगणिवेसे' यत्र ग्रामादौ ते साधव आवासिताः स नवः - अभिनवो निवेशः कदाचिद्भवति, तत्र च पात्रक्रसमीपे मूषिकैरुत्केर उत्कीर्णस्तेन रजसा मात्रकं गुण्ड्यते । मूसगरउकेरेति भणियं, 'निद्धमहिहरतणू वा' तथा स्निग्धायां - सार्द्रायां भुवि 'हरतणू व' चि सलिलबिन्दव उन्मज्ज्य लगन्ति ततो भुव उन्मज्ज्य पात्रकस्थापनक्रं भित्त्वा प्रविशेत् स लग्नो
प्रात्रकप्रत्यु. भा. १७४
नि. २८८२९१
॥११७॥