________________
SAISOSLASHTIRISA
नेन्द्रियेण चोपयोग ददाति कदाचित्तत्र मूषिकादिः प्रविष्टस्तन्निःश्वासवायुश्च शरीरे लगति, ततश्चैवमुपयोग दत्त्वा पात्रकाणि प्रत्युपेक्ष्यन्ते ॥ इदानीं भाष्यकृत्किंञ्चिन्याख्यानयन्नाह- .. |पडिलेहणियाकाले फिडिए कल्लाणगं तु पच्छित्तं । पायस्स पासु बेहो सोयादुवउत्त तल्लेसो ॥१७४॥ (भा)
प्रत्युपेक्षणाकाले 'फिटिते' अतिक्रान्ते एकं कल्याणकं यतः प्रायश्चित्तं भवति अतः पूर्वमुपयोगं प्रत्युपेक्षणाविषयं करोति। किंविशिष्टोऽसौ उपयोगं करोतीत्यत आह-पायस्स पासु बेहो' पात्रकस्य पार्थे उपविष्टः श्रोत्रादिभिरुपयुक्तस्तल्लेश्यःतच्चित्तो भवतीति । कथं पुनः पात्रकप्रत्युपेक्षणां करोतीत्यत आह
मुहणंतएण गोच्छं गोच्छगगहिअंगुलीहिं पडलाई । उक्कुडुयभाणवत्थे पलिमंथाईसु तं न भवे ॥२८८॥ 8 'मुहणंतएण'त्ति रजोहरणमुखवस्त्रिकया 'गोच्छं' वक्ष्यमाणलक्षणं प्रमार्जयति, पुनस्तमेव गोच्छकमङ्गुलीभिहीत्वा दू
पटलानि प्रमार्जयति । अत्राह परः-'उक्कुडयभाणवत्थे' उत्कुटुकः सन् 'भाजनवस्त्राणि' गोच्छकादीनि प्रत्युपेक्षयेत् यतो , वस्त्रप्रत्युपेक्षणा उत्कुटुकेनैव कर्त्तव्या, आचार्य आह-'पलिमंथाईसु तं न भवे' तदेतन्न भवति यच्चोदकेनोक्तं, यतः| पलिमन्थः सूत्रार्थयोर्भवति, कथं?, प्रथममसौ पादप्रोञ्छने निषीदति पश्चात् पात्रकवस्त्रप्रत्युपेक्षणायामुत्कटुको भवति पुनः। पात्रकप्रत्युपेक्षणायां पादप्रोञ्छने निषीदति, एवं तस्य साधोश्चिरयतः सूत्रार्थयोः पलिमन्थो भवति यतः अतः पादप्रोग्छने निषण्णेनैव पात्रकवस्त्रप्रत्युपेक्षणा कर्त्तव्येति ॥ ततः किं करोतीत्याहचउकोण भाणकण्णं पमज्ज पाएसरीय तिगुणं तु । भाणस्स पुप्फगं तो इमेहिं कज्जेहिं पडिलेहे ॥ २८९ ॥
CAGRAAAAAAA