________________
जोगे जोगे जिणसासणंमि दुक्खक्खया पउंजंते । एक्केकमि अनंता वहता केवली जाया ॥ २७७ ॥ सुगमा | नवरम् - एकैकस्मिन् 'योगे' व्यापारे वर्त्तमाना अनन्ताः केवलिनो जाता इति ॥
एवं पडिलेहंता अईयकाले अणंतगा सिद्धा । चोयगवयणं सययं पडिलेहेमो जओ सिद्धी ॥ २७८ ॥ एवं प्रत्युपेक्षणां कुर्वन्तोऽतीतकालेऽनन्ताः सिद्धाः । एवमाचार्येणोक्ते सति 'चोयगवयणं' अत्र चोदकवचनं - चोदकपक्षः, किं तद् १ इत्याह- 'सततं पडिलेहेमो' यद्येवं प्रत्युपेक्षणाप्रभावादनन्ताः सिद्धास्ततः सततमेव प्रत्युपेक्षणां कुर्मः, किमन्येनानुष्ठितेन ?, यतस्तत एव सिद्धिर्भवति । आचार्यः प्राह
सेसेसु अवहंतो पडिलेहंतोवि देसमाराहे । जइ पुर्ण सवाराहणमिच्छसि तो णं निसामेहि ॥ २७९ ॥ शेषेषु योगेषु अवर्त्तमानः सम्यक् शास्त्रोक्तेन न्यायेन प्रत्युपेक्षणां कुर्वन्नपि देशत आराधक एवासौ, न तु सर्वमाराधितं भवति, तेन यदि पुनः संपूर्णामाराधनामिच्छसीति, शेषं सुगमं । कथं च सर्वाराधको भवति ?, अत आह—
पंचिदिहिं गुत्तो मणमाईतिविहकरणमाउन्तो । तवनियमसंजमंमि अ जुत्तो आराधओ होइ ॥ २४० ॥ पञ्चभिरिन्द्रियैर्गुप्तो मनसादिना त्रिविधेन करणेन 'युक्त:' यत्नवान् तपसा - द्वादशविधेन युक्तः नियमः - इन्द्रियनियमो नोइंद्रियनियमश्च तेन युक्तः, संयमः सप्तदशप्रकारः पुढविकाओ आउक्काओ तेउक्काओ वाउक्काओ वणस्सइकाओ बेंदियतेंदिअचउरिंदिअपंचिंदिअअजीवकायसंजमो पेहाउपेहापमज्जणपरिवणमणोवईकाए । अत्र संयतः सन् मोक्षस्या -