________________
श्रीओघ
नियुक्तिः
SEAR
प्रतिलेखना विधिः नि. २७१-२७६
द्रोणीया वृत्तिः
॥११२॥
घडगाइपलोडणया मट्टि अगणी य बीय कुंथाई। उदगगया व तसेयर ओमुय संघट्ट झावणया ॥ २७४ ॥ | स हि साधुः कुम्भकारशालादौ वसतौ प्रत्युपेक्षणां कुर्वन्ननुपयुक्तस्तोयघटादि प्रलोठयेत् , स च तोयभृतो घटो मृत्तिकाग्निबीजकुन्थ्वादीनामुपरि प्रलुठितस्ततश्चैतान् व्यापादयेत् , यत्राग्निस्तत्र वायुरप्यवश्यंभावी, अथवाऽनया भजया षण्णां कायानां व्यापादकः 'उदगगता व तसेतर'त्ति योऽसौ उदकघटः प्रलोठितस्तद्गता एव वसा भवन्ति पूतरकादयः 'इतर त्ति वनस्पतिकायश्च, तथा वस्त्रान्तेन चोरमुकं 'सङ्घयत्'चालयेत् ततश्च'झावणय'त्ति तेनोल्मुकेन चालितेन सता प्रदीपनकं संजातं ततश्च संयमात्मनोविराधना जातेति । अथोपयुक्तः प्रत्युपेक्षणां करोति तत एतेषां जीवनिकायानामाराधको भवति, एतदेवाह
पुढवी आउकाए तेऊवाऊवणस्सइतसाणं । पडिलहणमाउत्तो छण्हंऽपाराहओ होइ ॥ २७५ ॥ . सुगमा ॥ नवरम् 'आराधकः' अविराधको भवति । न केवलं प्रत्युपेक्षणा, अन्योऽपि यः कश्चिद् व्यापारो भगवन्मते सम्यक् प्रयुज्यते स एव दुःखक्षयायालं भवति, एतदेवाहजोगो जोगो जिणसासणंमि दुक्खक्खया पउंजते । अण्णोण्णमबाहाए असवत्तो होइ कायवो ॥ २७६ ॥
योगो योग इति वीप्सा, ततश्च व्यापारो जिनशासने प्रयुज्यमानो दुःखक्षयाय 'प्रयुज्यमानः' क्रियमाणः, कथम् ? 'अन्योऽन्याबाधया' परस्परापीडया, एतदुक्तं भवति-यथा क्रिया क्रियमाणाऽन्येन क्रियान्तरेण न बाण्यते एवमन्योऽन्याबाधया प्रयुज्यमानः 'असवत्तो' असपत्नः अविरुद्धो भवति कर्त्तव्यः । इदानीं फलं प्रदर्शयन्नाह
॥११२॥
-8
984