SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ SHUGHUSHI S HISHUSHUSHUSUS पुरिमुवहिविवचासो सागरिए करिज उवहिवच्चासं । आपुच्छित्साण गुरुं पहुबमाणेयर वितहं ॥ २७१॥ तत्र विपर्यासो द्विविधः-पुरुषविपर्यास उपधिविपर्यासश्च, तत्रोपधिविपर्यासप्रतिपादनायाह-सागरिए करेज उवहिवच्चासं 'सागारिके स्तेनादिके सत्यागत इति विपर्यासः क्रियते प्रत्युपेक्षणायाः, प्रथमं पात्रकाणि प्रत्युपेक्ष्यन्ते पश्चाद्वस्त्राणि । एवमयं प्रत्युषसि विपर्यासः प्रत्युपेक्षणायाः, एवं विकालेऽपि सागारिकानागन्तुकान् ज्ञात्वा । इदानीं पुरुषविपर्यास उच्यते, तत्राह-'आपुच्छित्ताण गुरुं पहुबमाणे' आपृच्छ्य गुरुमात्मीयोपधिं ग्लानसत्कां वा प्रत्युपेक्षते, कदा ? अत आह-'पहुव्वमाणे' यदा आभिग्रहिका उपधिप्रत्युपेक्षकाः ‘पटुवंति' पर्याप्यन्ते तदैवं करोति 'इतरे वितहति हा इतरेऽभिग्रहिका यदा न सन्ति तदा प्रथममात्मीयामुपछि प्रत्युपेक्षमाणस्य 'वितर्थ' अनाचारो भवतीत्यर्थः, तत्र न केवलं प्रत्युपेक्षणाकाले उपधिविपर्यासं कुर्वतो वितथं-अनाचारो भवति । एवं च वितथं भवतिपडिलेहणं करेंतो मिहो कहं कुणइ जणवयकहं वा । देह व पञ्चक्खाणं वाएइ सयं पडिच्छइ वा ॥२७२॥ प्रत्युपेक्षणां कुर्वन्मिथः कथां मैथुनसंबद्धां करोति जनपदकथां वा, प्रत्याख्यानं वा श्रावकादेर्ददाति, 'वाचयति' है कश्चित्साधुं पाठयतीत्यर्थः, 'सयं पडिच्छति वा' स्वयं वा प्रतीच्छति-आत्मना वाऽऽलापं दीयमानं प्रतीच्छति-गृह्णाति । एतच्च कुर्वन् षण्णामपि कायानां विराधको भवति, अत आह पुढवी आऊकाए तेऊवाऊवणस्सइतसाणं । पडिलेहणापमत्तो उहंपि विराहओ होइ ॥ २७३ ॥ सुगमा ॥ कथं पुनः कायानां षण्णामपि विराधकः ?, अत आह
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy