________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१११॥
SANSAR
क्रियते ततोऽशुद्धता भवति, वेलायां च न्यूनायामधिकायां वा प्रत्युपेक्षणायां क्रियमाणायामशुद्धा भङ्गका भवन्ति । एवं प्रतिलेखना ते न्यूनाधिका भवन्ति विज्ञेयाः। आह-वेलायां न्यूनाधिकायां प्रत्युपेक्षणायां क्रियमाणायां दोष उक्तस्तत्कस्यां पुनर्वे-विधिःभा. लायां प्रत्युपेक्षणा कर्त्तव्या?, तत्र केचनाहुः-'अरुणावासग पुवं' अरुणादावश्यकं पूर्वमेव कृत्वा ततः अरुणोद्गमनस- १६५-१६६ मये-प्रभास्फाटनवेलायां प्रत्युपेक्षणा क्रियते१,अपरे त्वाहुः-अरुणोद्गमे सति-प्रभायां स्फाटितायां सत्यामावश्यक पूर्व' प्रथम
नि.२६८कृत्वा ततः प्रत्युपेक्षणा क्रियते.२, अन्ये त्वाहुः-'परोप्परं'ति परस्परं यदा मुखानि विभाव्यन्ते तदा प्रत्युपेक्षणा क्रियते ३, ती अन्ये त्वाहुः-'पाणिपडिलेहा' यस्यां वेलायां पाणिरेखा दृश्यन्ते तस्यां वेलायां प्रत्युपेक्षणा क्रियते ।। सिद्धान्तवाद्याह
एते उ अणाएसा अंधारे उग्गएविहु न दीसे । मुहरयनिसिज्जचोले कप्पतिगदुपट्टथुई सूरो ॥२७॥ ते सर्व एव 'अनादेशाः' असत्पक्षाः, यतः 'अंधारे उग्गएविहु न दीसे' अन्धकारे प्रतिश्रये उद्गतेऽपि सूर्ये रेखा न दृश्यन्ते तस्मादसत्पक्षोऽयं, शेषं पक्षत्रयं सान्धकारत्वादेव दूषितं द्रष्टव्यं, तत्कस्यां पुनर्वेलायां प्रत्युपेक्षणा कार्या ? इत्यत आह-'मुहरयनिसज्जचोले कप्पतिगदुपट्टथुति सूरों' 'मुख' इति मुखवस्त्रिका 'रय' इति रजोहरणं 'निसेजा' रयहरणस्योपरितनाः 'चोले'त्ति चोलपट्टकः 'कप्पतिग'त्ति एक और्णिको द्वौ सौत्रिकी, 'दुपट्टत्ति संस्तारकपट्ट उत्तरपट्टकश्च 'थुइ'त्ति प्रतिक्रमणप्रतिसमाप्तौ ज्ञानदर्शनचारित्रार्थ स्तुतित्रये दत्ते सति एतेषां मुखवस्त्रिकादीनां प्रत्युपेक्षणासमाप्त्यनन्तरं यथा सूर्य उद्गच्छति एष प्रत्युपेक्षणाकालविभाग इति । यदुक्तं प्रागुपधेर्विपर्यासः प्रत्युपेक्षणायां न कर्त्तव्य इत्युत्सर्गतो-31 |भिहितं, तस्यापवादमाह
॥
-