SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ S OCARASAAAAAAAAAA ६ महार्थी चेति । उक्त स्थानस्थितद्वार, तत्प्रतिपादनाच्च व्याख्यातेयं गाथा, यदुत "सिंगारबितियवसही ततिए सण्णी"|| इत्येवमादिका, तत्प्रतिपादनाच्चोक्ता अनेके प्रत्युपेक्षकाः, तत्प्रतिपादनाच्चोक्तं प्रत्युपेक्षकद्वारमिति, तत्र यदुक्तम्-"एत्तो, |पडिलेहणं वुच्छं"तामिदानी व्याख्यानयवाहदुविहा खलु पखिलेहा छउमत्थाणं च केवलीणं च । अम्भितर बाहिरिआ दुविहा वे य भावे य ॥ २५६ ॥ द्विविधा प्रत्युपेक्षणा भवति, कतमेन द्वैविध्येनेत्यत आह-छद्मस्थानां संबन्धिनां केवलिनां च, सा चैकैका द्विविधाअभ्यन्तरा बाह्या च, याऽसौ छद्मस्थानां सा द्विविधा-बाह्या अभ्यन्तरा च,या च केवलिनांसाऽपि भभ्यन्तरा बाह्या च । 'दवे य भावे य'त्ति याऽसौ बाह्या प्रत्युपेक्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा भावविषयेति । तत्र केलिप्रत्युपेक्षणां प्रतिपादयन्नाह पाणेहि उ संसत्ता पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा ॥ २५७॥ प्राणिभिः संसक्तं पदम्य तद्विषया प्रत्युपेक्षणा भवति केवलिनां, 'संसत्तमसंसत्त'त्ति संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां प्रत्युपेक्षणा भवतीति । आह-'यथोपन्यासस्तथा निर्देश' इति न्यायात्प्रथमं छद्मस्थानां व्याख्यातुं युक्तं पश्चात्केवलिनामिति, उच्यते, प्रधानत्वात्केवलिनां प्रथमं व्याख्या कृता पश्चाच्छद्मस्थानामिति, आह-तत्कथं प्रथममेवैवमुपन्यासो न कृतः? इति, उच्यते, तत्पूर्घकाः केवलिनो भवन्तीत्यस्यार्थस्य ज्ञापनार्थमिति ॥ अनेन वा कारणेन केव-| |लिनः प्रत्युपेक्षणां कुर्वन्तीति प्रतिपादयन्नाह- .
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy