________________
प्रथमालिकां, तत्र कालो-ग्रीष्मो यदि भवेत्पुरुषः क्षपको यदि भवति, 'पढमबिएहिं 'ति अत्र पुरुषः केन कारणेनास. हिष्णुर्भवति ? - ' पढमे 'त्ति प्रथमपरीपहेण बाध्यमानः, क्षुधित इत्यर्थः, द्वितीयपरीषहेण - तृषा बाध्यमानः, पिपासया पीड्य - मानोऽसहिष्णुर्भवति । अत्राह परः
जइ एवं संस अप्पत्ते दोसिणाइणं गहणं । लंबणभिक्खा दुविहा जहण्णमुक्कोस तिअपण ॥ १५० ॥ (भा० )
यद्येवमसौ बाह्यत एव प्रथमालिकां करोति ततो भक्तं संसृष्टं कृतं भवति, आचार्योऽप्याह - 'अप्पत्ते दोसिणादिणं गहणं' अप्राप्तायामेव भिक्षावेलायां पर्युषितान्नग्रहणं कृत्वा प्रथमालयति, कियत्प्रमाणां पुनः प्रथमालिकां करोत्यसौः, द्विविधा प्रथमालिका भवति - 'लंबणभिक्खा दुविहा' लम्बनैः - कवलैर्भिक्षाभिश्च द्विविधा प्रथमालिका भवति, इदानीं जघन्योत्कृष्टतः प्रमाणप्रतिपादनायाह - ' जहन्नमुक्कोस तिअपणए' यथासङ्ख्येन जघन्यतस्त्रयः कवलास्तिस्रो वा भिक्षाः, उत्कृष्टतः पञ्च कवलाः पञ्च वा भिक्षाः । इदानीं तेन सङ्घाटकेन किं वस्तु केषु पात्रकेषु गृह्यते ? का वा प्रथमालिकाकरणे यतना क्रियते ?, एतत्प्रतिपादयन्नाह -
एत्थ होइ भत्तं बिइअंमि पडिग्गहे दवं होइ । पाउग्गायरियाई मत्ते बिइए उ संसत्तं ॥ २५९ ॥ | एकस्मिन् पात्रके भक्तं गृह्णाति द्वितीये च पतग्रहे द्रवं भवति । तथा 'पाउरगायरियाई मत्ते'त्ति प्रायोग्यमाचार्यादीनामेकस्मिन् मात्रके भक्तं गृह्यते 'बितिए उ संसन्तं द्वितीये तु मात्रके संसृष्टं किञ्चित्पानकं गृह्यते ॥
ज रित्तो तो दवमत्तगंमि पढमालियाए करणं तु । संसत्तगहण दवदुल्लहे य तत्थेव जं पैत्तं ॥ २५२ ॥