SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ गामे गंतुं पुच्छे घरपरिवाडीऍ जत्थ उ न दिट्ठा । तत्थेव बोलकरणं पिंडियजणसाहणं चेव ॥ २४८ ॥ यदा तु पुनस्तेषां स्तेननीतानां चिह्नं न किञ्चित्पश्यति तदाऽपि ग्राममेव गत्वा पृच्छति, कथं ?, गृहपरिपाठ्या, 'जत्थ उण दिट्ठत्ति यत्र न दृष्टास्तस्मिन् ग्रामे, न च तामनिर्गतानां वार्त्ता तत्रैव 'बोलकरणं' रोलं कुर्वन्ति, पश्चाच्च 'पिंडितजणसाहणं' पिण्डितो - मिलिनो यो जनस्तस्य कथयन्ति यदुअस्मिन् ग्रामे प्रत्रजिता भिक्षार्थी प्रविष्टाः न च तेषां पुनरस्मात् ग्रामाद्वार्त्ता श्रुतेति । एवं तैस्तरुणैरेतदेव च कृतं भवति अन्यग्रामेऽटद्भिः - एवं गमदोसा विजढा परिक्कया अणोमाणं । मोहतिमिच्छा अ कया विरियायारो य अणुचिष्णो ॥ २४९॥ ' एवं ' अन्यग्रामे भिक्षाटनेन 'उद्गमदोषाः' आधाकर्मादयः 'विजढा' परित्यक्ता भवन्ति, 'पइरिक्कय'त्ति प्रचुरस्य | भक्तादेर्लाभो भवति 'अणोमाणं'ति न वा 'अपमानं' अनादरकृतं भवति लोके, तथा मोहचिकित्सा च कृता भवति, श्रमातपवैयावृत्त्यादिभिर्मोहस्य. निग्रहः कृतो भवति - अवकाशो दत्तो न भवतीति, 'विरियायारो य' वीर्याचारश्च 'अनुचीर्ण:' अनुष्ठितो भवति । अनुकंपायरियाई दोसा पइरिक्कजयणसंसद्वं । पुरिसे काले खमणे पढमालिय तीस ठाणेसु ॥ २५० ॥ एवमुक्ते सति चोदक आह-सत्यमाचार्यादयोऽनुकम्पिता भवन्ति, किन्तु त एव वृषभाः परित्यक्ता भवन्ति, आचार्योऽप्य| नेनैव वाक्येन प्रत्युत्तरं ददाति काक्वा-'अणुकंपायरिआई' त्ति एवमाचार्यादीनामनुकम्पा, यत एव परलोके निर्जरा इहलोके प्रशंसा, पुनरप्याह पर:- 'दोसा' इति भवतु नाम परलोका (आचार्या)नुकम्पा किन्तु क्षुत्पीडा पिपासापीडा च तदवस्थैव, आ
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy