SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ मालाड एवं तयोर्दम्पत्योः प्रीतिवृद्धिः संजाता, विपरीतश्चान्येन प्रकारेण भवति दृष्टान्तः । एवं तावद्यदि गृहस्था अपि सञ्च-18 यपरा भवन्ति-अनागतमेव चिन्तयन्ति, साधुना पुनः कुक्षिशम्बलेन सुतरामनागतमेव चिन्तनीयं, यदि परं लोकोत्तरेऽयं विशेषः, यदुत निःसञ्चयाः सुतरां चिन्तामाचार्या वहन्तीति । "पुच्छा दिहतगारी"त्ति भणिअं, इदानीं "पुच्छा गिहिणो चिंत"त्ति गाथायाः प्रथमावयवं व्याख्यानयन्नाहजणलावो परगामे हिंडिन्ताऽऽणेति वसइइह गामे । दिजह बालाईणं कारणजाए य सुलभं तु ॥१४०॥(भा०) __ यच्चोदकेन पृष्टमासीत्तत्रेदमुत्तरं-जनानामालापो जनालापो-लोक एवं ब्रवीति, यदुत परग्रामे हिण्डयित्वाऽऽनयन्ति-अत्र भजते । 'वसहि इह गामेत्ति वसतिः केवलमत्र एतेषां साधूनां, ततश्च 'देजई' बालादीनां ददध्वम् , आदिशब्दात्माघूर्णकादयो गृह्यन्ते, एवंविधां चिन्तां गृहस्थः करोति । ततश्च 'कारणजाते य सुलभ तु' त्ति एवंविधायां चिन्तायां प्राघूर्णका| दिकारणे उत्पन्ने घृतादि सुलभं भवतीति । आह-किं पुनः कारणं प्राघूर्णकानां दीयते ?, तथा चायमपरो गुणःपाहुणविसेसदाणे निजर कित्ती अ इहर विवरीयं । पुत्वं चमढणसिग्गा न देंति संतंपि कज्जेसु ॥१४१॥ (भा०) । प्राघूर्णकाय विशेषदाने सति निर्जरा कर्मक्षयो भवति, इहलोके च कीर्तिश्च भवति । इहर विवरीय'त्ति यदि प्राघूर्णकविशेषदानं न क्रियते ततश्च निर्जराकीती न भवतः, एवं प्राघूर्णकविशेषदानं न भवति, यस्मात्पूर्व चमढणसिग्गा ततश्च न देंति संतंपि कजेसु गिहिणो । चिंतत्ति वक्खाणिअं, इदानी कुजबदरीदृष्टान्तं व्याख्यानयन्नाहगामन्भासे बयरी नीसंदकडुप्फला य खुजा य । पक्कामालसडिंभा घायंति घरे घया दूरं ॥ १४२॥ (भा.) दाणे निज़र trony कर्मक्षयो भवति, विशेषदानं न भवातान
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy