________________
इति विज्ञेयं, 'संविग्ग एगठाणे'त्ति संविनो-मोक्षाभिलाषी 'एगठाणे'त्ति एकः सङ्घाटकः प्रविशति, 'अणेगसासुत्ति अनेकेषु साधुषु प्रविशत्सु 'पण्णरस'त्ति पञ्चदश दोषा नियमाद्भवन्ति “आहाकम्मुद्देसिअ" इत्येवमादयः । अज्झोयरओ| मीसजायं च एको भेओ, यस्मादनेकेषु साधुषु दोषास्तस्मात् संघाडेगो ठवणाकुलेसु सेसेसु बालबुड्ढाई । तरुणा बाहिरगामे पुच्छा दिटुंतऽगारीए ॥१३७॥ (भा०)
सङ्घाटकः एकः स्थापनाकुलेषु प्रविशति, शेषेषु कुलेषु बाला वृद्धाश्च प्रविशन्ति, आदिशब्दात्क्षपकाश्च । तरुणा:-शक्तिमन्तो बहिर्गामे हिण्डन्ति । अत्र चोदकः पृच्छति-पूर्वमेव क्षेत्रं प्रत्युपेक्षितं यत्र सबालवृद्धस्य गच्छस्यानपानं पर्याच्या भवति तत्रैव स्थीयते ततः कस्मात्तरुणा बहिर्गामे हिण्डन्ति ?, आचार्य आह-दिलुतगारीए' एकस्या अगार्या दृष्टान्तो दातव्यः, तं च तृतीयगाथायां भाष्यकारो वक्ष्यति । तथा इयमपरा द्वारगाथा| पुच्छा गिहिणो चिंता दिटुंतो तत्थ खजबोरीए । आपुच्छिऊण गमणं दोसा य इमे अणापुच्छे ॥ २३९॥ । | 'पुच्छत्ति चोदकः पृच्छति, ननु च तस्या अगार्या घृतादिसङ्ग्रहः कर्तुं युक्तो भर्तृप्रदत्ततवणिमध्यात् येन प्राघूर्णकादेः सुखेनैवोपचारः क्रियते, साधूनां पुनः स्थापनाकुलसंरक्षणे न किञ्चित्प्रयोजनं यतस्तत्र यावन्मात्रस्याहारस्य पाक: क्रियते तत्सर्वं प्रतिदिवसमुपयुज्यते, न तु तानि कुलानि संचयित्वा साधुप्राघूर्णकागमने सर्वमेकमुखेनैव प्रयच्छंति, एवं चोदकेनोक्त आचार्य आह-'गिहिणो चिंता' गृहिणश्चिन्ता भवति, यदुत-एते साधवः प्राघूर्णकाद्यागमने आगच्छन्ति ततश्च एतेभ्यो यत्नेन देयमिति, एवंविधामादरपूर्विकां चिन्तां करोति । यच्चोतं तरुणा बहिर्गामे किमिति हिण्डन्ति,
SRIENDSCALAR