SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ नामेका महत्तरा भवति, 'अदक्खिण'त्ति दाक्षिण्यमप्येषामाचार्याणां नास्तीत्येवं शय्यातरश्चिन्तयति । 'साहणय'त्ति तेन धर्मकथिनाऽऽचार्याय कथनीयं यदुतायमस्मद्वसतिदाता । 'वंदणिजत्ति शय्यातरोऽपि धर्मकथिनेदं वक्तव्यो-वन्दनीया आचार्याः, एवमुक्ते यदि असौ वन्दनं करोति ततः साध्वेव, अथ न करोति ततः 'अणालवंतेऽवि' तस्मिन् शय्यातरेऽ. नालपत्यपि आचार्येणालापकः कर्त्तव्यः, यदुत कीदृशा यूयम् । अथाचार्य आलपनं न करोति तत एते दोषाःवुड्डा निरोवयारा अग्गहणं लोगजत्त वोच्छेओ। तम्हा खलु आलवणं सयमेव उ तत्थ धम्मकहा॥११३॥(भा०) __ तथाहि-एत आचार्यास्तथा निरुपकारा-उपकारमपि न बहु मन्यन्ते, 'अग्गहण'ति अनादरोऽस्याचार्यस्य मां प्रति, |'अलोगजत्त'त्ति लोकयात्राबाह्याः, 'वोच्छेओ'त्ति व्यवच्छेदो वसतेरन्यद्रव्यस्य वा, तस्मात्खल्वालपना कर्त्तव्या, स्वयमेव च तत्र धर्मकथा कर्तव्याऽऽचार्येणेति ॥ वसहिफलं धम्मकहा कहणअलद्धी उसीस वावारे। पच्छा अइंति वसहिं तत्थ य भुजोइमा जयणा॥११४॥(भा०) | धर्मकथां कुर्वन् वसतेः फलं कथयति, 'कहणअलद्धी उ' यदा तु पुनराचार्यस्य धर्मकथालब्धिर्न भवति तदा 'सीस वावारित्ति शिष्यं 'व्यापारयति' नियुले धर्मकथाकथने, शिष्यं च धर्मकथायां व्यापार्य पश्चादाचार्याः प्रविशन्ति वसतिं, तत्र च वसतौ 'भूयः' पुनः 'इयं' यतना वक्ष्यमाणलक्षणा कर्त्तव्या ॥ पडिलेहण संथारम आयरिए तिणि सेस उ कमेण। विंटिअउक्खेवणया पविसइ ताहे यधम्मकही॥११५॥(भा०) तत्र च वसतौ प्रविष्टाः सन्तः पात्रकादेः प्रत्युपेक्षणां कुर्वन्ति, संस्तारकग्रहणं च क्रियते, तत आचार्यस्य त्रयः संस्तारका
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy