________________
धर्मकथाः
श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः ,
--
॥९४॥
निरूप्यन्ते, शेषाणां क्रमेण यथारत्नाधिकतया, ते च साधव आत्मीयात्मीयोपधिवेण्टलिकानामुत्क्षेपणं कुर्वन्ति येन भूमिभागो ज्ञायते, अस्मिन्नवसरे बाह्यतो धर्मकथी संस्तारकग्रहणार्थ प्रविशति ॥ उच्चारे पासवणे लाउय निल्लेवणे य अच्छणए। पुषट्ठिय तेसि कहेऽकहिए आयरण वोच्छेओ॥११६ ॥ (भा०)
ते हि क्षेत्रप्रत्युपेक्षका उच्चाराय भुवं दर्शयन्ति ग्लानाद्यर्थ, 'पासवणे त्ति कायिकाभूमिं दर्शयन्ति, लाउएत्ति तुम्बकत्रेपणभुवं दर्शयन्ति, निर्लेपनस्थानं च दर्शयन्ति, 'अच्छणएत्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते 'पूर्वस्थिताः' क्षेत्रप्रत्युपेक्षकाः, एवं 'तेषां' आगन्तुकानां कथयन्ति । 'अकहिए'त्ति यदि न कथयन्ति ततः 'आयरण वोच्छेओ'त्ति अस्थाने कायिकादेराचरणे सति व्यवच्छेदस्तद्रव्यान्यद्रव्ययोः, वसतेर्निर्हाटयतीति ॥ भत्तहिआ व खवगा अमंगलं चोयए जिणाहरणं । जइ खमगा वदंता दायंतियरे विहिं वोच्छ ॥११७॥ (भा०)
ते हि श्रमणाः क्षेत्रं प्रविशन्तः कदाचिद्भक्तार्थिनः कदाचित्क्षपका उपवासिका इत्यर्थः, तत्रोपवासिकानां प्रविशतां *'अमंगलं चोयए'त्ति चोदक इदं वक्ति, यदुत क्षेत्रे प्रविशतां अमङ्गलमिदं यदुपवासः क्रियते, तत्र 'जिनाहरण'मिति |जिनोदाहरणं, यथा हि जिना निष्क्रमणकाले उपवासं कुर्वन्ति न च तेषां तदमङ्गलं, किन्तु प्रत्युत मङ्गलं तत्तेषामेवमिदमपीति । इदानीं यदि क्षपकास्तस्मिन् दिवसे साधव उपवासिकास्तत्र च सन्निवेशे यदि श्रावकाः सन्ति ततस्तद्गृहेषु चैत्यानि वन्दन्तो दर्शयन्ति, कानि ?-स्थापनादीनि कुलानि आगन्तुकेभ्यः, 'इयरे'त्ति भक्तार्थिषु यो विधिस्तं वक्ष्ये । कश्चासौ विधिरित्यत आह
भा.११४११५वस-. तिविभागः भा. ११६ कुलस्थापनाभा. '११७
SALMANGACADA
॥९४॥